पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/314

एतत् पृष्ठम् परिष्कृतम् अस्ति

2. प्रश्नविधिः प्रतिदिनमिन्दोः शुक्लं तदुद[य] कालं तदस्तकालं च । बहुधा परिलेखविधिं प्रतिक्षणं शृङ्गसंस्थानम् ॥१॥ विलिखति पटेऽथ पट्टे कुड्यादौ वा विधूदयज्ञः सः । प्रथमोदये हिमांशुं ग्रहं ग्रहयुति द्वयोरथवा ॥ २ ॥ ग्रस्तमिनं चन्द्रं वा वंशाग्ने दर्शयेदपरदेशात् । दर्पणतैलाम्बुगतं योऽसौ ब्रह्मा नमस्तस्मै ॥ ३ ॥ प्रश्नविधिः द्वितीयः। इति श्रीमदानन्दपुरीयभट्टमहदत्तसुतवटेश्वरविरचिते स्वनामसंज्ञिते स्फुटसिद्धान्ते भट्टगोविन्दावतारिते शृङ्गोन्नत्यधिकारः सप्तमः ॥७॥ Text of Ms. A: [1] प्रतिदितमिन्दोः शुक्लं तदुदकालं तदस्तकालं च बहुधा परिलेखविधिप्रतिक्षणं श्रृङ्गसंस्थानम् । [2] लितिखति यदेथ यट्टे कुद्यादौ वा विधूदयज्ञः सः । प्रथमोदये हिमांशुं ग्रहं ग्रहयुतिर्द्वयोरथवा [3] ग्रस्तमिनं चंद्रं वा वंशाने दर्शयोदयरवेशात् दर्यणतलाम्छुगतो योसौ ब्रह्मा नमः तस्मै । प्रश्नविधि द्वितीयः॥

श्रीमदानन्दपुरीयभट्टमदत्तसुतोवटेश्वरविचिते स्वनामसंज्ञिते स्फुटप्रसिद्धान्ते मट्टगोविन्दावतारिते श्रृङ्गोन्नत्पथिकारस्सप्तमः ॥ 11