पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/315

एतत् पृष्ठम् परिष्कृतम् अस्ति

VIII. समानाधिकार: 1. ग्रहयुतिविधिः कदम्बप्रोतीया युतिः [युतिकालिकग्रहसाधनम्] भुक्तद्यन्तरेण विभजेद् ग्रहान्तरं वक्रिणोर्युतिर्व्यस्ता ॥ प्रतिलोमे चैकस्मिन् महति च येयाऽल्पके याता । १ ।। दिनगुणनिजगतिलिप्ताः स्वमृणं ग्रहयोः समैष्यगतयोगे ॥ वक़गतेविपरीतं तुल्यौ भवनादि विकलान्तौ ॥ २ ॥ अथवा निजगतिगुणितं ग्रहान्तरं गतिविशेषसम्भत्तम् ॥ गतियोगेन विलोमे प्राप्तकलाभिः समौ प्राग्वत्। ३ ॥ [ ग्रहाणां मानलिप्ताः]

शर[५]दिक्[१०]तिथि[१५]नख[२०]तत्त्वैः[२५] शशिकर्णगुणैस्त्रिमौर्विका भक्ताः ।
त्रिदश[३३]गुणाः सितगुरुबुधशन्यसृजां मानलिप्ताः स्युः ॥ ४ ॥

Text of Ms. A : [1] भुक्त्यन्तरेण विभजेद् गहान्तरं वक्रिणोर्युतिर्व्पस्ता प्रतिलोमे चैकस्मिन्महति च येयाल्पके याता

[2] दिनगुणनिजगतिलिप्ताः स्वमृणं ग्रहयोस्समेष्पगतियोगो

वक्रगतेर्विपरीतं तुल्पौ भवनादि विकलान्तौ

[3] अथवा निजगतिगुणितं ग्रहान्तरं गतिविशेषसंभक्तम्

गतियौमन विलोमे प्राप्तकलाभिस्समौ प्राग्वत् ।

[4] शरदितिथिनखञ्वैश्चलकर्णगुणोस्त्रिमौर्विकामक्त्ता ।

त्रिदशगुणो सितगुरुवुधशन्पसृजां मानलिप्ताः स्पुः