पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/319

एतत् पृष्ठम् परिष्कृतम् अस्ति

294 वटेश्वरसिद्धान्ते समागमाधिकारे [अधिकार: VIII [नक्षत्रक्षेपा:]] ध्रुवकक्रान्त्यन्ततः क्षेपाः ॥ ४ ॥ दश [१०] सूर्याः [१२] पञ्च [५] शराः [५] दिशः [१०] शिवाः [११] षड् [६] वियन् [०] नगाः [७] शून्यम् [०] ॥

सूर्या [१२] विश्वे[१३]शौ[११] द्वौ [२] सप्तत्रिशद् [३७] भुजौ [२] रामाः [३] ॥ ५ ॥
वेदा [४] नव [९] षड् [६] ऋतवः [६] कृतर्तवः [६४||[ खाग्नयो [ ३०] ऽङ्गरामाः [ ३६] खम् [०] । तीर्थकृतः [२४] षड्यमलाः [ २६] ख[०]मंशका अश्विनादीनाम् ॥ ६ ॥
ब्राह्मैन्द्रमूलमैत्राग्नेयानां खाग्नयः [३०] कलाः खकृताः [४०] ॥ वैश्वापविशाखानां खभुजा[२०]स्त्वाष्ट्रस्य संशोध्याः । ७ ।।
व्रीणि ब्राह्मात् सार्प द्वितयं हस्ताद् द्विदैवतात् षट् ॥
एतानि दक्षिणदिशि विक्षिप्तान्यन्यानि चोत्तरतः ॥ ८ ॥

[ व्याधागस्त्ययोः क्षेपौ] याम्ये क्षिप्तो व्याधः खकृतै[४०]रंशैः नगाचलै[७७]श्च मुनिः ॥ [भेदयुतिः।] बिम्बैक्यदलाच्छुद्धे समदिक्क्षेपान्तरे भेद: ॥ ९। Text of Ms. A : [5] दश सूर्याः पंच शरा दिशः शिव ष्वह्वियन्नगाः शून्पम् सूर्या विश्वेष्टौ द्धी सप्तत्रिंशद् भुजो राम: [6] वेदा नव षदृतवः कृतन्नवः स्वाग्रयोगरामः स्वम् तीथकृतष्वत्द्यमलाः स्वमंशका अश्विनादीनाम् [7] व्राह्मैव्दमूलमैत्राग्नेयानां खाग्नयः कलाः स्वकृताः वैश्चायिविशास्वानां स्वभुजस्त्पाष्ट्रम्प संशौध्पः ।

[8] त्रीणि व्रह्मात्सार्यं द्वितीयं हस्ताद्घिर्दवता अवद्वः

पतान्नि दक्षिणदिशौ क्षिप्तान्पन्पानि वोतुरत:

[9] याम्पे क्षिप्तो व्पाधः खकृतैरंशैः तगाचलैश्च मुनिः

छिम्वैकदलाछद्वे समदिक्षेयान्तरे भेद: Note. Vs. 8 is exactly the same as KK (= Khandakhādyaka), I, ix. 13.