पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/331

एतत् पृष्ठम् परिष्कृतम् अस्ति

308 वटेश्वरगोले [ अध्यायः 2 [ कर्णज्ञानम्]

परमफलगुणादधः कुलीरादुपरि मृगादित एव कोटिजीवा। वियुतियुतिरतोऽग्रकाऽनयोस्तद्भुजगुणवर्गयुतेः पदं श्रुतिः स्यात् ॥ ९ ॥'

उपरि कोटिफलं त्रिगुणान्मृगाच्छशिगृहात्तदधः स्वमृणं ततः ॥ त्रिभगुणे क्रियते ग्रहकोटिजं भुजफलाग्रकयोः श्रुतिरुक्तवत् ॥ १० ॥* [शीघ्रफलानयने कर्णानुपातः]

कक्ष्यावृत्ते दो:फलं चेत् त्रिमौर्व्या किं कर्णेन स्यात्तिरस्योऽनुपातः । व्यस्तो यस्माद् भूरिकर्णे लघीयान् स्वल्पे नाल्पं शीघ्रमेवं फलं स्यात् ॥ ११ ॥*

[ मन्दकर्मणि कर्णानुपात: कि न क्रियते] मन्दकर्मवदिह स्फुटता स्यात् तद्ग्रहादपि जवं यत इत्थम् ॥ खेचरैक्यमसकृच्छ्_तितो वा नो सकृच्छतिविधानमतोऽस्मिन् ॥ १२ ॥ खेचरोऽधिकजवो मृदुतुङ्गात्तत्स्फुटोतिरित एव यथादौ । खेचरैक्यमपि निश्चयमस्मिंस्तेन कर्णविधिना न फलोक्तिः ॥ १३ ॥ Text of Ms. A : [9] परमफलगुणादध कुलीग उपरि मृगादत पव कोटिजीवा वियुतियुतिरतोग्रकारयोस्तदभुजवर्गगुणयुतिः यदं श्रुतिः स्पात् । [10] उपरि कोटिफलं त्रिगुणान्मृगा छशिगृहानुदधत् खमृणं ततः त्रिभगुणै क्रियते ग्रहकोये भ्रुजफलाग्रकयोः श्रुतिभक्तवत् । [11] कक्ष्यावृत्ते दो:फलं चेत्त्रिमौर्व्पा किं कर्णन स्पातिरस्पोनुयात व्यस्तो यस्माद् भूमिकर्णो लघीयान् स्वल्पे नाल्यं शीघ्रमेव फलं स्पात्।

[12] भक्षकर्मवदिहैव स्फुटताश्ञ्चैतद्ग्रहादधिजवं यत इत्थम्।

खेचरैक्यमसकृछ्रुतित्तो वा छकृनिशश्रुतिविधानमतोस्मिन् ।

[ 13] स्वचेरोदधौ जीवो मृदुतुङ्गात्रत्स्फुटोक्विरत पवमार्दो

खेचरैक्यमयिनिस्चलमस्मिंस्तेन कर्णविधाना न फलोक्तिः । 1. cr LG.i. 16. 2. c. LG. i. 17. 3. स्यात्तिरस्योऽनुपातः = स्यात् + तिरस् +यः + अनुपातः