पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/334

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकाः 5-9] गोलबन्धः 311 [भगोलबन्धः]

खस्वस्तिकाद् दक्षिणतोऽक्षभार्गः पाता[ल]संज्ञाच्च तथोत्तरेण ॥

नाडायङ्कितं वैषुवतं तदुक्तं वृत्तं भगोलस्य खगोलमध्ये ॥ ५ ॥1 याम्योत्तरं वृत्तमिहान्यदेतद्विवेष्टमानं कुजवत् समन्तात् ॥ तद्दक्षिणोदग्ध्रुवयोर्निबद्धा यष्टिर्भुवा भूश्च भगोलमध्ये ॥ ६ ॥ नाडयाह्नवृत्तेऽजतुलादिलग्नं जिनांशर्कर्दक्षिणतो मृगादौ । सौम्ये [तथा] शीत[गु]मन्दिरादावपक्रमाख्यं तदुशन्ति वृत्तम् ॥ ७ ॥* भ्रमत्यजस्रं रविरत्र वृत्ते भूभा भखण्डे [दिननाथराशेः] ॥

पाता ग्रहाणां च विलोमगत्या विमण्डले स्वे मृगलाञ्छनाद्याः ॥ ८ ॥*

विम[ण्ड]लार्ध निजपातसङ्गादुदक् स्वविक्षेपलवैर्द्वितीयम् । सभार्धपाताच्च विमण्डलार्ध विक्षेपभागैर्दिशि दक्षिणस्याम् ॥ ९ ॥ Text of Ms. A : [5] खस्वस्तिकाद्दक्षिणतोक्षभागै: यातासङ्गाच्च तथोत्तरेण नाद्यंकितं वैषुवतं तदुक्तं वृत्तं भागोलस्प खगोलमध्पे

[6] यस्पोत्तरं तदिहान्पद्विचेष्टमानं कुजवत्समन्तात्

तद्दक्षिणोदग्ध्रुवयोर्निवद्वा यष्टिध्रुवौ भूश्च भागोलमध्पे [7] नाडयाहवृत्तेजतुलादिलग्रं निजांशकैर्दक्षिणतो दृगादौ। सौम्पे शीतमन्दिरादा कदाक्रमाख्यं तदुशन्ति वृत्तम्

[8] क्रमत्पजस्र रविरत्र वृत्ते त्तूभागेखण्डे

वाताग्रहाणा च विलोमगत्पो विमण्डलानां मृगलाञ्छनाद्याः [9] विमलार्धं निजयातसङ्गादुदक्स्वविक्षेपलवैद्वितीवयम् सभावयाताच्च विमण्डलार्ध विक्षेपभागैर्दिशि दक्षिणस्पाम् 1. Cf. LG, ii. 5. 2. Cf. LG, ii. 6. 3. Cf: LG, ii. 7. 4. Cf. LG, ii. 8. . 5. Cf. LG, ii. 9.