पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/335

एतत् पृष्ठम् परिष्कृतम् अस्ति

३१२ वटेश्वरगील [अध्याय: 3 नाडीवृत्तात् क्रान्तिभागैरजादौ भान्तयुज्यामण्डलानां त्रयं स्यात् । कर्क्यादौ वा व्यस्तमेवं तुलादौ षण्णामिष्टैः क्रान्तिभागैर्यथेष्टम् ॥ १० ॥1 इति भगोलबन्धः । [ग्रहगोलबन्धः] कक्ष्यावृत्तं नाडिकावृत्तगत्या देयं तद्वद्याम्यसौम्यं तथाऽन्यत् ॥ भूजस्थित्या क्रान्तिवृत्तं च तद्वत् तस्मिन्केन्द्रे स्वोच्चनीचे यथोक्त्या ॥ ११ ॥* मन्दकेन्द्रवलयानि हि सप्त स्वोच्चनीचवलयानि हि शीघ्रात् । मण्डलानि दशा शीघ्रजवोक्त्या गोलसंस्थि[ति]रिह द्युचराणाम् ॥ १२ ॥* उन्मण्डले लग्नमपक्रमाग्रे पूर्वापरे दक्षिणसौम्यवृत्ते । नतांशर्कस्तद्भ्रम[वृ]त्तमुक्तं व्योमौकसां व्यस्तमतः प्रभा स्यात् ॥ १३ ॥* [इति ग्रहगोलबन्धः] Breako Text of Ms. A : [10] नाडीवृत्ते क्रान्तिभागैरजादौ भान्तद्युज्पा मण्डलानां त्रयं स्पात् कर्क्यादौ व्पस्तमेवं तुलादौ षष्णामिष्टैः क्रान्तिभागैर्यथेष्टम् ॥ । भगोलवन्द्यः ।। । [11] कक्ष्पावृत्तं नाडिकावृत्तगत्पा देयं तद्वद्याम्पासौम्पं तथोन्पत् भूजस्थित्पा क्रान्तिवृत्तं च तद्वत् तस्मिन्केन्द्रे स्वांश्चनीचे यथोक्त्या । [12] मन्दंकेन्द्रवलयानि हि सप्त स्वोच्चनीचवलयानि हि शीघ्रात् मण्डलानि दश शीघ्रजवोक्त्या गोलसंस्थिरिह युचराणाम् । [13] तन्मण्डलोलग्नपराक्रमाग्रे पूर्वापरं दक्षिणसौम्पवृत्तौ नतांशकस्तद्भ्रमत्तमुत्कं व्योमौकसां व्पस्तमतः प्रभायाः l. Cf. LG, ii. 10-11. 2. Cf: LG, ii. 12-13. 3. Cf. LG, ii. 14. 4. Cf, LG, ii. 15. 5. No verse seems to be missing here.