पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/338

एतत् पृष्ठम् परिष्कृतम् अस्ति

হলীক্ষা: 23–26 ] गोलबन्धः 3ፃሄ भाभुजं नृमितकोटिकमन्यत् भाश्रुतिप्रमितकर्णकमन्यत् ।

एवमत्र शतशः परिकल्प्यो गोलज्ञानविमलीकृतधीभिः ॥ २३ ॥

दृग्ज्यामध्यगुणौ भुजौ लघुमहद्भूखण्ड्योगो मही

स्वाबाधे स्वभुजे तथा प्रगदिते दृक्क्षेपको लम्बकः । वृक्क्षेपोऽवनतिर्बृहत्कुश[क]लं पूर्वापरं लम्बनं
दृक्क्षेपो हरिजे महत्कुशकलं खस्वस्तिकाद् भूदलम् ॥ २४ ॥

द्युज्या नरोऽपक्रमभागजीवा लङ्कागतानां द्युदलार्कदृग्ज्या । सुरासुराणां द्युगुणोऽत्र दृग्ज्या क्रान्त्यंशजीवा कथिता च शङ्कुः ॥ २५ ॥ [इति सामान्यगोलबन्धः] [ग्रहभानां स्थिरवृतानि] याम्योत्तरं प्रागपरं महीजमुन्मण्डलं वैषुवतं च वृत्तम् ॥

स्थिराणि भानां द्युसदाममूनि पञ्च स्वकक्ष्यामितसंस्थितानि ॥ २६ ॥*

Text of Ms. A : [23] भाभुजं नृमितिकोटिकमन्पत् स्वं श्रुतिप्रमित्तकर्णकमल्पम् । एवमत्र शतशो प्रविकल्प्पो गोलकोलममलोकधियोश्वै: [24] दृग्ज्पामध्पगुणौ भुजौ लघुमहद्भूखण्डयोगे मही स्वोवाधे स्वलुते यथा प्रगदिते दृकेयको लम्छक: दृक्षेयौवनतिवृहत्कुशलं पूर्वापरं लम्छंनं ।

दृक्षेपो हरिजे महत्कुशकलो स्कस्वस्तिकामूतलम् । 

[25] द्युज्पा नरोपक्रमभागजीवा लंकागतां घुलादस्तदृग्ज्पा सुरासुराणा द्युगणेत्र दिग्ज्पा क्रान्त्पंशजीवा कथिताश्च शङ्कु

[26] याम्पोतुरं प्रागपरं महीजं मुन्मण्डलं वैषुवतं व वृत्तम्

स्थिराणि भानां द्युसदांमनूनि यञ्च स्वकक्ष्पामितसस्मितानि . Cf. LG, ii. 28. 2. Cf. LG, ii. 30.