[ कालस्य नव मानानि ]
आर्क्ष-चान्द्रमस-सौर-सावन-ब्राह्म-जैव-पितृ-देव-दैत्यजैः ॥
काल एभिरनुमीयतेऽव्ययो येन माननवकव्यवस्थितिः ॥ ९ ॥
[ माननवकस्य प्रयोजनानि ]
पर्वावमतिथिकरणाधिमासकज्ञानमैन्दवान्मानात् ।
प्रभवाद्यब्दाः षष्टि[६०]र्युगानि नारायणादीनि ॥ १० ॥
आङ्गिरसादेतेषां ज्ञप्तिः पैत्र्याच्च पैतृको यज्ञः ।
कामलजासुरदैवैस्तेषामायुःपरिक्लृप्तिः ॥ ११ ॥
अध्ययननियमसूतकमखगतयः [ तपः] चिकित्सा च ।
होरामुहूर्तयामाः प्रायश्चित्तोपवासाश्च ॥ १२ ॥
आयुर्दायश्च नृणां गमनागमने च सावनान्मानात् ।
ऋत्वयनविषुवदब्दा युगं क्षयर्द्धीं दिनस्य सौरात्स्युः ॥ १३ ॥
Text of Ms. A :
[9] आर्क्षचांद्रमससौरसावनब्राह्मजैवपितृदेवदैत्यजैः
- काल एभिरनुमीपतेव्पयो । भेन मानभवकस्पवापः
[10] पर्वावमतिथिकरणाधिमासकज्ञानमैन्दवान्मानात्
- प्रभवात्पब्दाष्पष्टियुगानि नारायणादीनि ॥ २२ ।।
[11] आंगिरसादेतेषां ज्ञप्तिः पित्र्याश्च पैतृको यज्ञः ।
- कमलजासुरदेवैस्तेषामायुः परिश्छितिः ।
[12] अध्ययनतियमसूतकमखगतयः । चिकित्सा च
- हारा मुहर्तयामाः प्रायाश्चित्तोपवासाश्च ॥ २३ ।।
[13] आयुर्दायश्चतृणां गमनागमने च सावनान्मानात् ॥
- ऋत्वयनविषुवदव्दाघुगक्षयद्धीं दिनस्य सौरात्स्युः ॥ २४ ॥
Ms. B: 12b Stop (1) missing 13a °नृणां 13 c °दब्दा०