पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/341

एतत् पृष्ठम् परिष्कृतम् अस्ति

३१८ वटेश्वरगोले [अध्यायः 4 [देशान्तरादिफलवासना]

प्राक्प्रागुदेति द्यु[मणिः कु]मध्यात् पश्चाच्च पश्चात्फलमप्यतोऽस्मात् ॥ ग्रहे क्षयः स्वं क्रियतेऽत एव उत्तो ध्रुवक्षिप्तिरिहाद्यकालात् ॥ ५ ॥'

मध्यमात् फुटरवेस्समुद्गमः प्रागृणे [र]विफलासुभिर्यतः ॥

स्वे चिरात्तदनुपातजं फलं खेचरेष्वृणमतो धनं भवेत्। ६ ।*

अपक्रमोन्मण्डलयोर्निबद्धौ यतः खरांशोरुदयास्तकालौ । नतोन्नतेऽस्मिन् ध्रुवयष्टिसङ्गादुन्मण्डले तच्चरखण्डकर्म ॥ ७ ॥* उन्मण्डलादुदगधः क्षितिजं तदूर्ध्वं याम्ये उदग्गत इनः प्रथमं चरेण ॥ दृष्टिं समेत्य चिरमस्तमुपैति याम्ये पश्चादुदेति विवरासुभिरेतयोश्च ॥ ८ ॥

निजभुक्त्यनुपाततः फलं क्षयवृद्धयाहुमतो दिवौकसाम् ।
अत एव दिनक्षपार्धयोबृहदल्पत्वमणूरुता क्रमात् ॥ ९ ॥*

Text of Ms. A : [5] प्राक्प्रागुदेति द्युमध्पात्पश्चाच्च पश्चात्फलमप्पतोस्मात

ग्रहे क्षयस्सं क्रिपतेत एव नक्तो द्युवादिरिहाद्यकालात् ।
[6] मध्पमात्स्फुटरवेस्समुद्म प्राग्गृहे निकलासुमिर्यतः

स्वे चिरातदनुपातज फल खेघरेष्वृणमतो धनं भवेत् [7] अपक्रमौन्मण्डलयोनिर्वद्धौं यतः खरांशोरुदयास्तकालौ नतोन्नतेस्मिध्रुवपष्ठिसङ्गादुन्मण्डलं तच्चरखण्डकर्म ।

[8] तत्मण्डलादुदगधः क्षितिजात्तदूर्ध्वं याम्पोन्नतः इनः प्रथमचिरेण ।

अस्त समेत्प चिरमस्तमुपैति याम्पे पश्चादुदेति विवरासुभिरेतपोश्च [9] निजभुक्तयनुपाततः फलं क्षपवृद्धत्याह्वमतो दिवौकसाम् अत पव दिनक्षयार्धयोर्वृहदल्पत्वमनूरुता क्रमात् 1. Gf. LG,riii. 6. 2. Cf:. LG, iii. 7. 3. Cf. LG, iii. 8. 4. Cf: LG, iii. 9-10(a-b). 5. Cf. LG, iii. 10(c-d)-11.