पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/47

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
[अधिकारः I
वटेश्वरसिद्धान्ते मध्यगत्यधिकारे

अधिमासहतो द्युगणः कुदिनहृतः पर्ययादि तद्युक्तः ।
विश्व[१३]घ्नोऽर्कश्चन्द्रः [चन्द्रो ] हीनस्त्रयोदश[१३]हृदर्कः ॥ २६ ॥

शशिमार्सर्वा द्युगणे निष्हते कुदिनोद्धृते च भगणादि ।
तत्सहितो रविरिन्दुविधुविहीनोऽथ घर्मांशुः ॥ २७ ॥

युगव्यतीपातहतादहर्गणाद्युगक्षमावासरलब्धमधितम् ।
क्षपाकरोनं भगणादि भास्करो विवस्वतोनं रजनीकरोऽथवा ॥ २८ ॥

शशाङ्कमासाप्तफलोनसंयुतं पृथक् तदधीकृतमर्कशीतगू ।
[युगा]धिमासाप्तफलेन वर्जिताच्चतुर्दशांश सविताऽथवा भवेत्। २९ ॥

युगावमघ्नो द्युगणः क्वहोद्धृतः [समन्वितोऽहर्गणकेन यद्भवेत् ।
खराम [३०]भक्तं भगणादिकं फलं खरांशुयुक्त भवतीह शीतगु:] ॥ ३० ॥


Text of Ms. A :

सवित्ता गृहादिकं यद्भगणाश्च गत्तर्क्षपरिवर्ताः

[26] अधिमासहतो घुगणः कुदिनहृतः पर्ययादि तद्युक्तः ।

विश्वाघ्रोर्कश्चंद्रः होनस्त्रयोदशहृदर्कः

[27] शशिपासैर्वा घुगणे निष्हते कुदितोद्वृत च भगणादि

तत्सहितो रविरिवुर्विधुर्विहीनोथ घर्मांशुः।

[28] युगव्यतीपातहतादहर्गणाघुगक्षपावासरलव्दमव्दितं ।

क्षिपाकरोनं भगणादिभास्करौ विवस्वतोनं रजनीकरोथवा ।

[29] शशांकमासाप्तफलानसंयुतं पृथक्त्वमधकृतमर्कशीतगू।

अधिमासाप्तफलेन वजिताश्चतुर्दशांशं सविताथवा भवेत् ।

[30] युगावमध्नो द्युगणः कृहोद्धृते वासराद्यपहरेद्दिनौघतो ।

वाधिविकलमंशकादिक: ॥ ॥