पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/49

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
[अधिकारः I
वटेश्वरसिद्धान्ते मध्यगत्यधिकारे

[द्युगणोनभूदिनैः ग्रहानयनम्]

द्युगणोनभूदिनघ्नः पठितग्रहपर्य[यो] महीद्युहृतः ॥
भगणादि विलोमगतिर्ग्रहोऽनुलोमश्च्युतश्चक्रात् ॥ ३६ ॥

[भगणोनकुदिनैः ग्रहानयनम्।]


भूदिनैर्व्यभगणोनैर्हते[1] द्युराशौ युगक्षमाद्युहृते ॥
भगणादिव्र्यस्तगतिर्भगणाच्छुद्धो ग्रहोऽनुलोमगतिः ॥ ३७ ॥

[स्वोदय-भोदयज्ञानेन ग्रहानयनम्।]


भावर्तेर्भगणाद्यं ग्रहोदयैश्चान्तरे तयोर्द्युचरः ।
यस्य गतोदयसिद्धं भावर्तफलं तदेव सद्द्युचरः ॥ ३८ ॥

[स्वोदयभोदयज्ञानेन मन्दशीघ्रग्रहयोरानयनम्]


उदयसमासाद् ग्रहयोर्भोदयहीनात्तथैतयोरुदयैः ।
भगणाद्यल्पगउदयात्तद्वियुजोऽनल्पगोऽथवाऽन्यः ॥ ३९ ॥

तद्भोदयान्तरं वा ग्रहोदयान्तरयुतोनितं दलितम् ।
खचरो स्वल्पगहीनं त्वरितगतिः शीघ्रगोनमल्पगतिः ॥ ४० ॥


Text of Ms. A :

[36] द्युगणोनभूदिनघ्नः पपितग्रहपर्यमहीद्युहृत्ताः

भगणाधि विलोयगतिर्ग्रहोनुलोमच्पुतश्चक्रात् । ।

[37] भूदिनैर्व्पभगणोर्नर्हतो द्युराशौ घुगक्षमाद्युह्रते ।

भगणादिर्व्यस्तगतिर्भगणाश्छुद्धो ग्रहोनुलोमगतिः ॥ ॥

[38] भावर्तर्भगणाद्यं ग्रहोदर्यश्चांतरे तयोर्द्युचर:

यस्य गतोदयसिद्धं भावर्तफलं तदेव स घुचरः ।

[39] उदयसमासाद्ग्रहयोर्भोदयहीनात्तथैतयोरुदयैः

भगणाद्यल्पगउदयास्तद्वियुजोन्पोल्पगोथवान्पस्प।

[40] तद्भोदयांतरं वा ग्रहोदयांतर्युतोनितं दलितं

खचरौ स्वल्पविहीनं त्वरितगति: शीघ्रगौनभल्पगतिः ॥ ॥

^ 1. व्यभगणः = व्यस्तगतिग्रहभगणः