पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/57

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
[अधिकारः I
वटेश्वरसिद्धान्ते मध्यगत्यधिकारे

[शुद्धिसाधन-विधयः]

हीनरात्रिदिनसंयुतिर्युता दिग्[१०]घ्नवत्सरगणेन भाजिता ।
खाग्नि[३०]भिस्त्वधिकमासकाः फल शुद्धिरत्र विकलं दिनादिकम् ॥ ६ ॥

अध्यहानि शिव[११]निघ्नहायनैरन्वितानि खगुणो[३०]दद्धृतानि वा।
लभ्यतेऽधिकगणोऽवशिष्टकं शुद्धिसंज्ञमथवा दिनादिकम् ॥ ७ ॥

गोमतित्रिरसषड्[६६३८९]ढताः समाः खाभ्रखाभ्रधृति[१८००००]भाजिताः फलम् ।
मासकाद्यधिकसंज्ञकं तथा शुद्धिसंज्ञमथवा दिनादिकम् ॥ ८ ॥

रुद्र[११]निघ्ननिजहारसंयुतैरध्यहानि गुणकैः प्रसाधयेत् ॥
तानि खाग्नि[३०]भजिताधिमासका वाऽवशिष्टदिवसा विशुद्धयः ॥ ९ ॥

[वर्षाधिपसाधन-विधयः]

वत्सरान्वितदिनेषु सप्तभिर्भक्तशेषमिह वत्सराधिपः ।
गो[९]घ्नवत्सरगणेऽवमोनिते साध्यहेऽग[७]हृतशेषमब्दपः ॥ १० ॥


Text of Ms. A :

[6] हीनेराम्रिदिनसंयुतिर्युता दिग्घ्रवत्सरगणेन भाजिता ।

खाग्निभिस्त्विधिकमासिका: फलां शुद्धिरत्र बिकलं दिनादिक ॥ ॥

[7] अध्यहानि शिवनिघ्नहायनैरन्वितानि खदिमोद्धृतानि वा।

लभ्यतेधिकगणोवशिष्टकं शुद्धिभद्ररथवा दिनादि यत्। ॥

[8] गोमतित्रिस्स्कषट्कृतास्समाः खाघ्रखाभ्रधृतिभाजिताः फलं ।

मासकाद्यधिकसंज्ञक तथा शुद्धिसंजमथावादितादियेकम् । ।

[9] रुद्रनिघ्रनिजहारसंयुतैरध्यहानि गुणकैः प्रसाधयेत् ।

भानि खाग्निभजिताधिमासका वावशिष्टदिवसा विशुद्धयः ।

[10] वत्सरान्वितदिनेषु सप्तभिर्भक्तशृषमिह वत्सराधियः

गोघ्नवत्सरगणैवमोनिते । साध्यहेखहृतशेषमव्दयै : ।

Ms. B : 6b दिग्घ्न° 8 a °त्रिरस्कषट्कृता० 10 b °वत्सराधिप: 10 d oमब्दप: