पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/58

एतत् पृष्ठम् परिष्कृतम् अस्ति
परिच्छेदः ५]
३३
प्रत्यब्दादिशुद्धिविधिः



पञ्चपञ्चकहतिर्युतावमैर्वजिताऽधिकदिनैर्हृता नगैः[७] ।
शेषसप्त[७]विवरं समाधिपो वा दिनाधिपसमाधिपः स्फुटः ॥ ११ ॥

द्वि[२]निघ्नवासरनिकरेऽधिकोनिते युतेऽथवाऽवमनिकरेण वर्षपः ।
स्वभागहारयुतगुणैर्यथोक्तवद् दिनादि तेष्वग[७]हृतशेषमब्दपः ॥ १२ ॥

[ चान्द्रवर्षाधिपसाधन-विधयः]

इनाब्दपोऽयमभिहितोऽधुना विधोः समापतिर्मधुसितपूर्ववासरे ॥
समागणाद्दिननिकरं यथोक्तवत् प्रसाध्य वा शशिगतवत्सराधिपः ॥ १३ ॥

वाऽवमद्विकगतान्तराधिकं प्रोज्झय वर्षशर[५]घाततोऽब्दपः ।
शुद्धिहीनदिवसेषु वाब्दपो हीनरात्रघटिकाब्दसंयुतिः ॥ १४।।

एवमर्कभगणाब्दप्रेरितैरैन्दवस्य करणैः प्रसाधनम् ॥ १५ ॥

[सौरचान्द्रवर्षाधिपयोः परस्परानयनम्]

हीनाहनाडीवियुतो विशुद्धया युक्तः शशाङ्काब्दपतिस्तु सौरः ॥
सौरस्तु नाडीसहितोऽथवा तच्छुद्धया विहीनो विधुवर्षपः स्यात् ॥ १६ ॥



Text of Ms. A :

[11 ] पंचपंचकहतिर्युतावमैर्वजिताधिकनगैर्ह्रता नगै: ।

शेषसप्तविवरं समाधिपो वाधिनाधिपसमार्तिकस्स्फुटः ।

[12] द्विनिघ्नवासरनिकरेधिकोनिते युतेथवावमनिकरेण वर्षपः

स्वभागहारयुतगुणैर्यथोक्तवद्दिनादि तेस्वगहृतशेषमब्दपः ।

[13] इनाव्दपोयमभिहितोधुना विधोः समापतिर्मधुसितपूर्ववासरे

समागणाद्दिननिकरं यथोक्तवत्प्रसाघ्य चेहगदिगतववत्समाधिपः ।

[14] वावमद्विकहतांतराधिकं प्रोज्त्य वर्ष्टशरघाततोव्दय:

शुद्धिहीनदिवसेषु वाव्दपो हीनरात्रघटिकाव्दसंयुतः

[15] एवमर्कभगणाव्दपेरितैरेन्दवस्प करणै: प्रसाधनं ॥ ॥

[l6] हीनांहनाडीवियुजाबियुजाविशुद्धा । यूनः शशाकाव्दपतिस्तु सोरः ।

स नाडियुक्तोथवा शुद्धया विहीतो विधुनाथवर्षयः ।

Ms. B : 13 a इनाब्दपौ° 14 b प्रोज्ज्य०, तोब्दपः ।d °घटिकाब्द° 16 a हीनांहनाडी वियुजा विशुद्ध