पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/62

एतत् पृष्ठम् परिष्कृतम् अस्ति
परिच्छेदः ५]
३७
प्रत्यब्दादिशुद्धिविधिः



शुद्धद्यूना वा तिथयश्चैत्रात्त्रिरधस्त्रिखस्वरै[७०३]र्भक्ताः ।
फलयुङमध्यो युक्तो रसकु[१६]हतावमघटीभ्यः तिथ्या[१५]प्त्या ॥ ३३ ॥
अष्टकृति[ ६४]हृदवमोनोऽन्योऽवमनाडिकायुतो द्युगणः ॥

सावमनाडयस्तिथयश्चैत्राच्छुद्धयूनितास्त्रिरधः ॥ ३४ ॥
विखनग[७० ३]हृत्फलसहितो मध्यः कुभुजा[२१]हतावमघटीभ्यः ।
खभुजा[२०]प्तयुगाब्धिरसै[६४]र्लब्धावमवर्जितो द्युगणः ॥ ३५॥

शुद्धयूनस्तिथिनिकरश्चैत्राद्विष्ठो दिगा[१०lहतो युक्तः ।
विश्वेक्षणा[ २१३]हतावमघटिकाभ्यः खभुज[२०]लब्धाभ्यः ॥ ३६ ॥
गोत्रिरस[ ६३९]हृदवमोनो दिननिकरोऽवमघटीसमेतो वा ॥

वाऽवमघटिकायुक्तस्तिथि[नि]करः शुद्धिविहीनोऽधः ॥ ३७ ॥
दिग्घ्नोऽवमघटिकाभ्यः खरसा[६०]प्तयुतोऽङ्कभुञ्जरस[६२९]हताभ्यः ।
नवगुणरसै[६३९]विभक्तः फलावमो[नो] भवेद्द्युगणः ॥ ३८ ॥



Text of Ms. A :

[33] शुद्धय, ना वा तिथपश्चैत्रात्त्रिरधस्त्रिखस्वरैर्भक्ताः

मध्यफलपुंमध्यमे युक्तोनसक्त्तहतावमघटीम्पः । तिथ्पाप्त्पा

[34] ष्टकृतिहृदवमौनोन्पोवमनाडिकायुतो द्युगणः ।

स्पवमनाडयस्तिथयः चैत्राश्छुद्ध्यनितास्त्रिरधः ।

[35] त्रिखनगहृत्फलसहितो मध्पः कुभुजहतावमघटीभ्पः

खभुजाप्तयुगाब्दिरसै लब्दावमवर्जितो द्युगणः ॥ ॥

[36] शुद्धयुनस्तिथिनिकरश्चैत्राद्विष्टो दिनाहतो घुक्कः

विश्वक्षणाहतावमघटिकात्पः खभुजलव्दा ॥ ॥

[37] गोत्रिरसहृदवमोनो दिननिकरोवमघटीसमेतो वा ।

वावनघटिकायुत्कस्तिथिकरः शुद्धिहीनोधः ॥ ॥

[38] दिग्घोवमघटिकाभ्पः खरसाप्तयुतोकभुञ्जरसहताभ्पः

नवगुणरसैविभक्तः फलावमो भवेद्द्युगणः

Ms. B.: 38 b०युतोंक०