पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/64

एतत् पृष्ठम् परिष्कृतम् अस्ति
परिच्छेदः ५]
३९
प्रत्यब्दादिशुद्धिविधिः




[प्रतिसौरमासशुद्धिविधिः]

विश्वाग्निनन्दाष्टकु[१८९३१३]भिर्मूर्च्छंनाम्राङ्कखाक्षिभिः [२०९०२१] ।
रविमासा हता भक्ताः खखाभ्रद्वित्रिसागरैः [४३२०००] ॥ ४४ ।।
दिनावमानि तद्योगः खाग्नि[३०]भक्तोऽधिमासकाः ।
शेषं दिनादिशुद्धिर्वा विकलं दिनशेषतः ॥ ४५ ॥

[सौरमासाधिप-साधनम्]

द्विघ्रमासाद्द्युयोगात्स्याद् भानुमासपतिः स्फुटः ।

[ लघ्वहर्गणादिवसाधिपयोः साधनम्]

शुद्धद्यूना दिवसा मासाद्गताः शिव[११]हताः पृथक् ॥४६ ॥
अवमविकलाद् द्विगोरस[६९२]निघ्नात् स्वच्छेदसंयुक्तात् ।
त्रिखनग[७०३jहृतात् फलोनाद् द्युगणो मासधिपाद् दिवसम् ॥ ४७ ॥

[ सौरदिवसान्ते ग्रहसाधनम्।]

द्विखेभैः [८०२] कुगुणैः [३१] नन्दजिनै[ २४९]र्बाणै[५]र्नगाङ्ककैः [९७] ।
द्वाभ्यां [२] तु सौराहर्गणं हन्याल्लिप्ता निशाकरात् ॥ ४८ ॥



Text of Ms. A:

[44] विश्वाग्निनंदाष्टकुभिर्मूर्छनाभ्राकखाक्षिमिः

रविमासा हता भक्ताः खखाभ्रद्वित्रिसागरैः ॥

[45] दिनावमानि तद्योगः खाग्निभत्कोधिमासकाः

शेषं दिनादिशुद्धिर्वा विकलं दिनशेषतः ॥ ॥

[46] द्विघ्नाचासातपोगात्स्पाद्धानुर्भासयतिस्स्फुट:

शुद्धिपूना दिवसा मासाद्गता शिवहताः पृथक् ॥ ॥

[47] अवमविकलाद् द्विगौरसनिघ्नात्स्वश्छेदसंयुतः ।

त्रिखनगहतात्फलोनाद् द्युगणो मासाधिपाद्दिनं ॥ ॥

[48] द्विखेमै: कुगणैर्नदजिनैर्वाणोत्रगांककैः ।

द्वाभ्यां तु सौराहर्गणहत्याल्लिप्ता निशाकरात् ।

Ms. B: 44 b °नाभ्राक° 48 b °णोनिगांककै: