पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/65

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
[अधिकारः I
वटेश्वरसिद्धान्ते मध्यगत्यधिकारे

वेदाग्नित्रिभुजैः [२३३४] सप्तव्योमबाहु[र]सैककैः[१६२०७] ।
वेदाङ्गाक्षिभुजैः [२२६४] पञ्चपञ्चव्योमनिशाकरैः [१०५५.] ॥ ४९ ॥
कृतनन्दशराङ्कश्च [९५९४] द्विवेदाङ्गं[६४२]द्विधा स्थितम् ॥
खखव्योमाष्टचन्द्रांशै[१८०००]रुच्चपातौ रसै[६]र्गुणें:[३] ॥ ५० ॥
शिवनेत्राङ्गविशिखे[५६२११]र्वोदाग्न्यक्षिरसैष्कर्क:[१६२३४] ।
खखखाक्षिनगांशै[७२०००]र्वा दिनकृद्दिवसान्तिकाः ॥ ५१ ॥

[प्रतिसौरदिनशुद्धिविधिः]

प्राग्वद्रविदिवसेभ्यो गुणकेभ्यः खाग्नि[३०]सङगुणहरेण ।
दिवसावमावशुद्धिर्दिवससंयुतिदिनाधिपश्च तथा ॥ ५२ ॥

[ सौरवर्षादिसाधनम्]

भांश[ ३६०]विभक्तदिनेभ्यो वर्षाण्यवशेषतः खगुणैः [३०] ।
मासाश्चैत्रसिताद्याः शेषाद् दिवसास्ततोऽभीष्टाः ॥ ५३ ॥



Text of Ms. A :

[49] वेदाग्नित्रिभुजैस्सप्तव्योमवाहुसैककैः ।

वेदांगाक्षिभुर्जपंचपंचव्योमनिशाकरैः ।

[50] कृतनंदशरांकैश्च द्विवेदांगैर्द्विधा स्छितं ।

खखव्योमाष्टचद्रांशेरुच्चपांतौशसैर्गुणै: ।

[51] शिवानेत्रांगविशिखै। र्वेदाग्न्यक्षिरसैककै:

खखखाक्षिनगांश्रैर्वा दिनकृद्दिवसांतिकाः ।

[52] प्राग्वद्रविदिवसेभ्पो गुणकाभ्पो खाग्निसंगुणहरेण ।

दिवसावमावसुद्धिदिनर्दिवसंयुतिर्दिनाधिपश्च तथा

[53] भांशुविभक्तदिनेभ्पो वर्पाण्यवमशेषतः खगुणैः

मासाश्चैत्रसिताद्याः शेषदिवसास्ततोभीष्टा: ।

Ms. B : 52 b खाग्विसंगुण°