पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/66

एतत् पृष्ठम् परिष्कृतम् अस्ति
परिच्छेदः ५]
४१
प्रत्यब्दादिशुद्धिविधिः




[अवमशेषसाधनम्]

दिवसाः शुद्धिविहीनाः कार्यास्तेभ्यो द्युभूढमपि ।
ऊना सावनशुद्धिर्भानोर्वर्षान्तजा दिनैरूनैः ॥ ५४ ॥
शेषं शोध्यद्युगणस्तद्रुद्र[११]हतं विशोधयेच्छेषात् ।
द्विनवरस[ ६९२]घ्राद् भक्तात्स्वच्छेदेनावमो विशुद्धयति चेत् ॥ ५५ ॥
शोध्यद्युगणाद्रूपे शुद्धे गुणखाग[७०३]संयुताच्छोध्या ।
शेषं तद्दिवसोत्थं विकलं त्ववमस्य विज्ञेयम् ॥ ५६ ॥

[सौरवर्षान्ते सौरमासान्ते वा चन्द्रसाधनम्]

सूर्याब्दमासान्तरविः शुद्धया द्वादश[१२]निघ्नया ।
युतोंऽर्शै रवि[१२]निघ्नाच्च निशापोऽवमशेषतः ॥ ५७ ॥

[चान्द्रमासान्ते तुल्यौ रविचन्द्रौ]

स्वच्छेदेन, युगाधिमासनिहता मासा गता भास्करा
भानोर्मासगणोद्धृताः फलयुताश्चान्द्राः शरै[५]स्ताडितात् ।
शेषादङ्गशरेषुबाणखनवस्तम्बेरमा[ ८९०५५५६]प्तांशकै
रूनश्चैत्रसितादिमासकगणो राश्याद्यचन्द्रद्युपौ ॥ ५८ ॥


Text of Ms. A :

[54] दिवसशुद्धिविहीनाः कार्यास्तेभ्पो द्युर्मदमपि ।

ऊना साननेबुशुद्धिर्भानोर्वर्षांतजा दिनैरूनै:।

[55] शेषं शोध्ययुगणस्तदुरुहतं विशोधयेश्छेषात्

द्विनवरसघ्राद्धक्तात्स्वश्छदेनावमा विशुध्यति चेत् ॥ ॥

[56] शोध्यद्विगुणाद्रुपे शुद्धे गुणखागसंयुताश्छेध्या

शेष तद्दिवसोत्थं विकलं त्ववमस्प विज्ञेयं ॥ ॥

[57] स्वाव्दमासांतरविशुद्याद्वादश । तेघ्रया ।

अतोंशौरवृनिघ्नाश्च निशापोवमशेषतः ॥ ॥

[58] स्वश्छेदेन युगाधिगासनिहिना मासा गता भास्करा

भानोर्मासगणौद्घृताः फलघुत्ताश्चांद्राः शरैस्ताडितात्
शेषादंगशरेषुबाणखनवस्तस्तेरमापूंशकै-
रूनश्चैत्रसितादिमरसकगणो राश्याद्यचंद्रद्युपौ ।

Ms. B : 54 c ०शुद्विर्भा० 58 c ०स्तस्नेर० 58 d °श्चैत्र०