पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/69

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
[अधिकारः I
वटेश्वरसिद्धान्ते मध्यगत्यधिकारे

भागा भास्वति योज्याः शशिदिवसा द्वादशहताश्चन्द्रः ।
रामष्टनव[९८३]विनिघ्ना वसुरसष[ड्रस]कुसप्तरसनेत्रैः[ २६७१६६६८] ॥ ६८ ॥
भक्ताः शीतगुदिवसा लब्धं भागादि संशोध्यम् ।
तीक्ष्णशिशिरांशुयोगातद्भां[२७]शोत्थ इलासुतो मध्यः ॥ ६९ ॥

दिग्व्योमेषुनगाग्निव्योमनखै[ २००३७५०.१०]र्भाजिताः समभिनिघ्नाः ।
नगतत्त्वाब्ध्यङ्गकुभिः[१६४२५७] शशिनो दिवसाः फलोनि[त]त्र्यंशः ॥ ७० ॥
शशिनः स्याद्बुधशीघ्रं

द्विभुजा[२२]हतभौमवजिताच्चन्द्रात् ।

खभुजांशो [1/20]देवगुरुस्त्रयष्टाग्नि[ ३८३]हतेभ्य इन्दुदिवसेभ्यः ॥ ७१ ॥
खैकखशरागरामव्योमनखै[२००३७५०१०]र्लब्धसंयुक्त: ।

ज्ञचलेनान्तरभेदं कुगुणागरसद्वि[ २६७३१]निहतदिवसेभ्यः ॥ ७२ ॥
खशशिखशिलीमुखनगगुणखखनेत्रै[२००३७५०१०]र्लब्ध[यु]ग् भृगोः शीघ्रम् ।

सितशीघ्रभास्करान्तरधृति[भागः][१/१८] नन्द[९]निहतदिवसेभ्यः ॥ ७३ ॥


Text of Ms. A :

[68] भागा भास्वति योज्पाः शशिदिवसा द्वादशाहतश्चंद्रः

रामाष्टनवविविघ्ना रसवसुष-कुंसप्तरसनेत्रैः ।

[69] भत्काः शीतगुदिवसा लव्दं भागादि संशोध्यं ।

तीक्ष्णशिशिरांशुयोगात्द्भात्थ इलासुतो मध्यः ।

[70] दिग्व्यामेषुनगाग्निव्योमनखैर्भाजितास्समभिनिघ्नः

नगतत्वाव्यंगकुभिः शशिनो दिवसाः फलोनिस्त्रयंशः ।

[71] शशिनस्पाघुशीघ्रद्विभुजाहतभौमवर्जिताः चंद्रात्

खभुतांशो देवगुरुस्त्रयाष्टाग्निहतेभ्प इंदुदिवसेभ्पः ॥ ॥

[72] खैकखणरागनामव्योमनखैलंब्दसंयुक्त:

ज्ञचरेणांतरभेदं कुगुणागारसाद्विनिहतदिवसेभ्पः ।

[73] खशशिखशिलीमुखनगगुणखखनेवैर्लव्दग्भृगो: शीघ्रं ।

सितशीघ्रभास्करांतरधृतं नंदनिहितदिवसेभ्पः ।