पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/71

एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
[अधिकारः I
वटेश्वरसिद्धान्ते मध्यगत्यधिकारे

[गुर्वब्दान्ते चान्द्रदिवसात्मिका शुद्धिः]

नववसुगुणाङ्गभुजभुजनेत्रहतं [२२२६३८९] वाऽवशेषकं विभजेत् ।
खत्रयरसाङ्गयमनवदिग्भि[१०९२६६०००]दिवसादि चन्द्रशुद्धियुतम् ॥ ७९ ॥

गोऽङ्गखशशिकृत[४१०६९]निघ्ना नखगुणपत्र्चाष्टमूर्च्छना[२१८५३२०]भक्ताः ।
गुर्वब्दा लब्धियुता नवाष्टरामाङ्गरस[ ६६३८९]हतं लब्धम् ॥ ८० ॥
खचतुष्टय[रस]शशधरनेत्रै[ २१६००००]र्वर्षादि यत्प्राप्तम् ।
तद्वर्षेर्मासैरपि हीनं तिथयो गतास्तु चैत्रादेः ॥ ८१ ॥
प्राग्वत्सावनशुद्धया चान्द्रचा वा कर्म देवगुर्वब्दे ॥ ८२ ॥

[गुर्वब्दाधिपः]

एका[गा]ङ्का[९७१]भिहता गुर्वब्दा द्वयश्विवेदरसरार्मैः [३६४२२] ।
भक्ताः फलं चतुर्घ्नेर्ज्यब्दैर्युक्तं ज्यावर्षपः स्यात् ॥ ८३ ॥

[गुर्वब्दान्ते अवमशेषम्]

शिवाङ्कोत्कृति[२६९११]निघ्नेभ्यो द्विद्विवेदरसाग्निभिः [३६४२२] ।
जीवाब्देभ्योऽवशेषं यत् तद्वियद्रस[६०]सङ्गुणम् ॥ ८४ ॥


Text of Ms. A :

[79] नववसुगुणांगभुजभुजनेत्रहतं वावशेषकं । वेभजेत्

खत्रपरसांगपमनवदिग्भिदिवसादि चंद्रशुद्धियुतं ॥ ॥

[80] गोंगखशशिकृतनिघ्ना नखगुणपंचाष्ठमूर्छभाभक्त्ताः

गुर्वव्दा लव्दियुता नवाष्टरामांगरसहत् लव्दं

[81] खचतुष्टयशशधरनेत्रैर्वर्षादि यत्प्राप्तं

तद्वर्षेमसैरापेकीना लवृया घृता गुरोस्तु चैत्रशुक्लादेः

[82] प्राग्वत्सावनसुद्धया चांद्रया वा कर्म देवगुर्वव्दे ॥ ॥

[83] एकांकानिहता गृवृंब्दाश्चिद्विवेदरसरामेः

भक्ताः फलं चतुर्ध्नेर्ज्पाब्दैिर्युत्कं ज्पावष्टंताः । स्स्पात् ।

[84] शिवांकोत्कृतिनिघ्नेभ्पो द्विद्विवेदरसाग्निभिः

जीवाव्देभ्पो विशेषं यत्तद्विपद्रससंगुणं ।

Ms. B.:   79 b विभजेत् 80 cगुर्वब्दा 81 b०पत्प्राप्तं 81 d लब्टया 82 b °ब्दे 84 c जीवाब्दे०