पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/73

एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
[अधिकारः I
वटेश्वरसिद्धान्ते मध्यगत्यधिकारे

मुनिनखवेदाग्नि[३४२०७jहृतात् खरसाङ्गकराङ्कदिग्[१०९२६६०]धृताल्लब्धम् ।
योज्यमहर्पतिभेदे गुरुवर्षगणादिलासुतो मध्यः ॥ ९१ ॥

रसखाब्ध्यष्टभुज[२८४०६]हताच्छराष्टिरामागबाहु[२७३१६५]सम्भक्तात् ।
शिशिरगुप्तनयचलोच्चं गीर्वाणगुरोः समागणाल्लब्धम् ॥ ९२ ॥

गुरुभेदे संयोज्यं नगशशिनगनन्द[९७१७]ताडिताद् भक्तात् ॥
पञ्चेषुखेन्दुनवभिः [९१०५५] ज्याब्दगणाद् भार्गवचलोच्चम् ॥ ९३ ॥

सप्ताधैकरस[६१०७]हतात् खशिवाक्षिगजैक[१८२११०]भाजिता[ज्ज्या]ब्दात् ।
निविडतरतिमिरगजकरकेसरिरविदेहसम्भवो मध्यः ॥ ९४ ॥

सूर्यदशांशे [1/10] योज्यं नगाग्निसप्ता[ष्टभू][१८७३७]गुणितात् ।
खाष्टगजाङ्गशिलीमुखमनु[१४५६८८०]भिर्जीवाच्छशांकोच्चम् ॥ ९५ ॥

इननखांशके [1/20 ] देयं नगैकचन्द्राष्ट[८११७]ताडिताज्जीवात् ।
खरदेषुधृतिभुजा[२१८५३२०]प्तं शशिपातो वा ग्रहा एवम् ॥ ९६ ॥


Text of Ms. A :

[91] मुनिनखवेदान्गिहताः खरसांगकाराकदिग्धृताल्व्दं ॥

योज्पमहर्यतिभेदे गुरुवष्र्टगणादि-सुतो मध्यः ।

[92] रसखाव्द्यष्टभुजाहतश्छराष्टिरामागवाहुसंभत्कात्

शिशिरगुतनयं चलोश्चगीर्वाणगुरोस्समागणांल्लव्दं।

[93] गुरुमेर्वे संयांज्यं गनंशशिनगनंदताडिताद् भक्तात्

पंचेपुखेन्दुनवभिर्ज्पाव्दगणाद्भार्गवचलोच्चं ॥ ॥

[94] सप्ताम्रैकरसहताश्छशिव्पक्षिगजैकभाजिता वात्

निविडतरतिमिरगजकरकेसरिरविदेहसंभवो मध्पः ।

[95] सूर्यदशांशे योज्पं नगाग्निसप्ता । - - - गुणितां

खाष्टगजांगशिलीमुखमनुभिर्जीवाश्छशांकोच्चं ॥ ॥

[96] दिननखंशिदेपं नगैकचंद्राष्टताडिताज्तीवात्

खरदेषुघृतिभुजाप्तं शशिपातो वा ग्रहा एवं ॥ ॥

Ms. B.: 91 b ०करांक० °लब्दं 92 d ०लब्दं 93 a गुरुमेदे संयोज्यं 93 cपंचेषु° 96 b °ज्जीवात्