पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/75

एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
[अधिकारःI
वटेश्वरसिद्धान्ते मध्यगत्यधिकारे

गुण[३]राशयो द्विनेनै:[२२] कुनगै[७१] रस[६]लिप्तिका ज्ञशीघ्रं वा ।
द्युगणोऽक्ष[५]गुणो लिप्ता गुरुरभ्रनगै[७०]श्च लिप्तिका हीनः ॥ १०२ ॥
कुरसगुणै[ ३६१]र्वा राशिर्विकलोनोऽक्षजलधि[४५]दिनैः ।
पञ्चभि[५]रष्टौ[८] भागास्सितचलमेकाग्निभिः [३१] कला वेदाः [४] ॥ १०३ ॥
नगनववसुभी [ ८९७] राशि
र्गुणेषुरामैश्च [३५३] सप्त [७] विकलोनः ॥
खधृति[१८०]दिनैः कुरसगुणाः[३६१] कलिकाः कलिकः शराब्धिभुजचन्द्रैः[१२४५.] ॥ १०४ ॥
एभिर्द्युगणादिभवाः समन्विता वा स्युरिष्टदिने ।

[२. सूर्यांशेभ्यो ग्रहसाधनम् ]

सूर्यांशेभ्यो वा स्युलब्धफलेनान्विता मध्याः ॥ १०५ ॥
त्रीशकरैः [ २११३] सूर्यांशैः शशी शरागा[७५]स्त्रिभि[३]श्च पूर्णकृताः [४०] ।
भागास्तदुच्चपातौ कुरसा [ ६१] नवबाहवः [२९] कलाः छिद्रैः [९] ॥ १०६ ॥



Text of Ms. A :

[102] गुणराशयो द्विनेत्रै: कुनगै रसलिप्तिका ज्ञशीघ्रं वा ।

द्युगणोक्षगुणो लिप्ता गुरुरभ्रनखैश्च लिप्तिकाहोन:

[103] कुरसगुणैर्वा राशिर्विकलोतः पक्षजलदिदिनैः ॥

पंचभिरष्टौ भागास्सितचलमेकाम्प्रहै: कला चैका ॥

[104] तगनवरसवसुभी राशिगुणेषुरामैश्च सप्तविकलोनः

खधृतिगुणैः कुरसगुणाः कलिकाः कलिकः शराव्दिचंद्रैः ।

[105] पभिर्युगणादिभवास्समन्किता वा स्पुरिष्टदिनै:

सूर्याशेभ्पो वा म्युर्लब्दफलेनान्विता मभ्पाः

[106] त्रीशकरैस्सूर्यांशैः शशी शरागास्त्रिभिश्च पूर्णकृताः

भागास्तदुच्चपातौ कुरसनववाहवः कलाः छिद्रै

Ms. B: 104 d शराब्दि° 105 a °स्समन्विता 105 c वा स्पुर्लब्द° 106 कुरसा°