पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/79

एतत् पृष्ठम् परिष्कृतम् अस्ति

6. करणविधिः

[अधिमासावमभगणशेषदिनानि]

अधिमासा[व]मविकलाग्रहमण्डलशेषकाणि चैत्रादौ ।
अधिमासावमभगणैः प्रोक्तनिजमुद्धरेद्दिनादिफलम् ॥ १ ॥

[गुणकपरिकल्पना]

रविचन्द्रभूमिदिवसा अधिकावमपर्ययोद्धृता हाराः ।
बहुतरशेषे स्वधिया गुणकं सञ्चिन्त्य गुणहतं विभजेत् ॥ २ ॥

[हारक्षेपपरिकल्पना ]

छेदे गुणकारबधे हारः क्षेपः गुणकहतं क्षेपम् ।
तद्भागहारशकलादधिक क्षेप तदा हरेद्धारात् ॥ ३ ॥

[धनक्षयौ धनक्षयगणौ च ]

सैव च्छिन्नो हारः शेषं च धनं क्षयाह्वमितरः स्यात् ।
तद्भक्ताः क्षितिदिवसाः प्रोत्पन्नहराहताः क्षयस्वगणः ॥ ४ ॥


Text of Ms. A :


[1] अधिमासामविकलग्रहमंडलशेषकानि चैत्रादौ

अधिमासावंमभगणैः प्रौक्तैनिजमुद्धरेद्दिनादिफलं । ॥

[2] रविचंद्रभूमिदिवसा अधिकावमपर्ययोद्धृता हाराः

वहुतरशेषे स्वधिया युणक संचित्प गुणहत्तं विभजेत् ।

[3] देयं गुणाकरवधे हारः क्षेप्पः गुण्यहतं घुप्पां

तद्भारहरान्शकलादधिकं शेप्टं तदा हरेद्वारात् । ।

[4] सैकश्छिन्नो हारः शेषं च धनं क्षपाह्वमितरस्स्पाद्

तद्भत्काः क्षितिदिवसाः प्रोत्पन्नहराहताः क्षयस्छगुणः ।

Ms. B : 2d गुणाहत्तं 3 b गुणाहतं क्वेप्पं 4 b °स्स्पाट्