पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/81

एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
[अधिकारः I
वटेश्वरसिद्धान्ते मध्यगत्यधिकारे

[ग्रहस्पष्टीकरणम्]

भगणाधिकयोनयुते मध्यस्स्यादेवमेव ग्रहपाताः ।
विधिवत्केन्द्रफलानि तु कृत्वा द्युचरोऽनुपाततः स्पष्टः ॥ ९ ॥

[करणरचनाविधिः]


युगाधिमासावमपर्ययाणां निरग्रता यत्र युगे स्फुटानाम् ।
कार्य सुसंक्षिप्तमनन्यदृष्टं सुखावमेयं करणं जडानाम् ॥ १० ॥

करणविधिः षष्ठः ।






Text of Ms. A :

[9] भगणाधिकयोनयुते मध्यस्पादेवमेव धृगुयाताः ।

विधिवत्केंद्रफलानि तु कृत्वा घृवरोनुपाततस्स्पृष्टः ॥ ॥

[10] युगाधिमासावमपर्पयोना न्निरग्रता यत्र युगे स्फुटानां ।

कार्यं सुसंक्षिप्तमनन्पदृष्टं सुखावमेयं करण जडानां ॥ ॥

करणविधिष्पष्ट: ।