पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/82

एतत् पृष्ठम् परिष्कृतम् अस्ति



7. कक्ष्याविधान-ग्रहानयनविधिः

[क्षेत्रसम्बन्धि-परिभाषाः]

रवेर्गृहान्तःस्थितरश्मितो ये प्रकाशमायान्त्यणवोऽष्टभिस्तैः ।
कचाग्रमष्टौ खलु तानि लिक्षा ताभिश्च यूकाऽष्टभिरेवमुक्ता ॥ १ ॥
यवोऽष्टयूकोऽङगुलमष्टभिस्तैरथाङगुलद्वादशभिर्वितस्तिः ।
वितस्तियुग्मेन करः करैर्ना चतुर्भिरेको नृसहस्रमुक्तः ॥ २ ॥
क्रोशस्तु तैर्योजनमष्टसंख्यैस्तैर्व्योमवृत्तं कथयन्ति सन्तः ।
खव्योमपूर्णर्तुनगेषुखाक्षिग्रहाब्धिभू[भृ]त्[सु]खपक्षचन्द्रे:[१२४७४७२०५७६०००] ॥ ३॥

[ भानोः करप्रसारः ]

गगने गगनान्तःस्था द्युतयो विलयं न यत्प्रकुर्वन्ति ।
यावतावदिह नभो दीप्त भानुना भानो: ॥ ४ ॥


Text of Ms. A ;

[1] रवेर्गृहांतस्छितरश्मितो यं प्रकाशमायात्पणवोप्टभिस्ते ।

कचाग्रमष्टौ खलु तानि रक्षा ताभिश्च यूकाष्टभिरेवमुक्ता ।

[2] यवोष्ठयूकोंगुलेमष्टभिस्तरथांगुलद्वादशभिर्वितस्ति:

वितस्तियुग्मेन करः करोत्रो चतुर्भिरेके नृसहस्रमुक्त' ॥ ॥

[3] क्तोशस्तु तै येजिनमवृक्षंख्यैस्तैर्व्योमवृत्तं कथयति संतः

खव्योभपूर्णतुंनगेषुखाक्षिगृकाव्दिभूत्खपक्षचंद्रै: ।

[4] गगनगगनातछा वितयो वितयो नयत्प्रकुर्वन्ति

घावत्तावहिह नभो दीप्ता भानके भानुः ।

Ms. B: 1 d °वभुक्ता 2a °गु । ल° 3 a योजन° 4 d भानवो भानुः