पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/87

एतत् पृष्ठम् परिष्कृतम् अस्ति

8. देशान्तरविधिः [रेखापत्तनानि] लङ्का कुमारी तु ततस्तु काञ्ची मानाटमश्वेतपुरी त्वथोदक् । श्वेतोऽचलोऽस्मादपि वात्स्यगुल्मं पूः स्यादवन्ती त्वतु गर्गराटम् ॥ १ ॥ आश्रमपत्तनमालवनगरे पट्टशिवमेव रोहितकम् । स्थाण्वीश्वरस्तु हिमवान् मेरुलेखाध्वकर्म नास्त्येषाम् ॥ २ ॥ [ भूमेः व्यासपरिधी ] ₰कृतखगदिग्[१०५४]भिर्भूमेव्यासः स्याद्योजनैर्भगोऽग्नि[ ३९२७]हतः ॥ खशरार्क[ १२५०]हृतः परिधिः स्पष्टाऽतो दशकरणिका[v/१०]त्स्यात् || [ पूर्वाचार्यमतेन देशान्तरसाधनम् ]

'तिर्यलेखापतनपल-निजपलयो[विशे]षशेषांशैः ।

[गुणितः] क्षितिपरिणाहश्चक्रांश[ ३६०]हृतस्तु बाहुः स्यात् ॥ ४ ॥ लेखा'[पूः]स्वपुरान्तरयोजनसंख्याश्रुतिस्तु लोकोक्ता । तद्दोःकृतिविवरपदं कोटिर्देशान्तरं प्रोक्तम् ॥ ५ ॥ Text of Ms. A : [1] लंका कुमारी तु ततस्तु कांची मानाटमश्वेतपुरी त्वथोदक श्वेतोचलोस्मादपि वात्यगुल्मं पूस्स्पाववंती त्वनु गर्गराटं [2] आश्रभं पत्ततमालवनगरे चट्टशिवमेव रोहितकं। स्छाण्वीश्वरस्तुहिगवान्मेरोर्लेखाध्वकर्म नास्त्पपरं । [31 कुततगदिग्भिर्भूमेर्व्यासरस्पाद्यांजनैर्भगोगृहत: खशरार्कहृत्तः परिधिः स्पष्टातो दशकरणिकात्स्पात् । [4] तिर्यग्लोवापत्तनपलनिजपलयोः षशेषांशैः क्षितिपरिणाहश्चक्रांशहृदस्छुवाहस्स्पात् । [5] खेलास्वपरांतयोंजनसंख्या च श्रुतिस्नु लोकोक्ता । तददो:कृतिविविरपदं कोटिर्देशातरं प्रोक्तं । ।