पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/90

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 8] " देशान्तरविधिः 65 [ देशान्तर-भुजान्तर-चरकर्माणि ] <dwr भूदिवसैर्भगणेभ्यः कलादिलब्धिस्तु वारभोगोऽस्मात् ॥ ग्रहवद्भुजान्तरफलं देशान्तरचरदले वाऽपि ॥ १४ ॥ [ सावनवर्षमासाधिपसाधनम् ] कायुःकल्पकृतेभ्यो द्युगणात् खरसाग्नि[३६० ]भाजिताल्लब्धम् । त्रि[३]गुणमग[७]भक्तशेषं सावनसमाधिपः सैकम् ॥ १५ ॥ यममन्दभास्कराद्यो मासाधिपतिः खहव्यभुग्[ ३०]भक्तः ।

द्युगणः फलं द्वि[२]निघ्नं सैकं नग[७]भक्त्तविकलं स्यात् ॥ १६ ॥

[ होराधिपादिसाधनम् ]] [ प्रथमविधिः ]

ऊर्ध्वं वारप्रवृत्तेर्दिनगतघटिका द्वया[२]हताः पश्च[५]भक्ता 

होरेशः सैकमाप्तं नग[७]हृतविकलं वासरेशाच्च षष्ठः ॥ पश्चा[५]भ्यस्त फल वा हिमकर[१]सहित स्यात्क्रमेण द्युनाथात् मासेशः स्यात्तृतीयोऽब्दपतिदिनपती तच्चतुर्थो द्वितीयः ॥ १७ ॥ Text of Ms. A : [14] भूदिवसैर्भगणेभ्यो दिनादितछिस्तु वारभोगोस्मात् । ग्रहवद्भुजांतरफलं देशांतरचरदलेनापि

[15] वायु कल्पकृतेभ्पो घुगणाः खरसाग्निभाजिताल्लध्दं ।

त्रिगमगभक्तमेष सावनसमाधिपस्सैकं [16] यमनंदभास्कराद्यो मासाधिपत्तिः खहव्पमुग्भक्ताः ।

घुगणाः फलं द्विनिघ्ने सैकं नगभक्तविकलं स्पात् । [17] ऊधृ'वारप्रवृत्तेर्दिनगतघटिका द्वयाहता: पंचमक्त्ता

होरेशस्सेकमाप्त नगहृतविकलवासरेशाश्च षष्टाः ।

पंचाभ्पस्तं फल वा हिमकरसहितं स्पात्कमेण द्युभाथो मासेशस्स्यात्तृतीयोब्दपतिदिनपती तच्चतुर्थ द्वितीय
Ms. B ः 14 b दिनादिलब्दिस्तु वारभोगोस्मात्