पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/97

एतत् पृष्ठम् परिष्कृतम् अस्ति

72 वटेश्वरसिद्धान्ते मध्यगत्यधिकारे [ अधिकारः I [मनु-कल्प-युगाङ्घ्रिखण्डनम्] पुलिशरोमकसूर्यपितामहप्रकथितैर्मनुकल्पयुगाङघ्रिभिः ॥ न हि समाः खलु जिष्णुसुतेरिताः कथमपीह यतो न ततः स्फुटाः ॥ ५ ॥ [मनुसंध्याखण्डनम्)

मनुरपि यदि संध्ययैकया स्याव् द्वितयमसद् द्वयमेव चेन्न चैका ॥ निजमतिपरिकल्पिताश्च संध्या न च मनुना पुलिशेन वा स्मृतास्ताः ॥ ६ ॥

['चरण'-शब्दस्य खण्डनम्। चरणश्चतुरंशकः स्थितो वत लोके न दशांशकः क्वचित् ॥ युगकल्पसमानवाच्यता न यतस्तत्स्फुटताप्यसत्कृता ॥ ७ ॥ [जगदुत्पत्तिप्रलयखण्डनम्] जगदुत्पतिप्रलयौ कमलजनित उवाच यत्तदसत् ।

वेदानां नित्यत्वाच्छतिवाक्यानां गतिर्भवति । ८ ॥

[ होराद्यधिपक्रमखण्डनम्।] शीघ्रक्रमान्निरुक्ता होरादिनमासवर्षपा धात्रा ।

मन्दादेनार्कादेर्वेति न वा तत्स्वरूपमपि ॥ ९ ॥

Text of Ms. A: [5] पुलिशरोमकसूर्यपित्तामहप्रकथितैर्मृनुकल्पयुगाघ्रिभि । त हि समाः खलु जिष्णुमुतेरिताः कथमपीह यतो न तत स्फुटाः ॥ [6] मनुरपि पदि संध्पर्यकपा स्याद् द्वितपमसद्द्वयमेव चेन्न चैका । निजपतिपरिकल्पिताश्च संध्या न च मनुना मुलिशेन वा स्मृतास्ताः । ॥

[7] चरणश्चंतुरंवशकः स्थितो वत लोके न दशांशकः क्वचित्

युगकल्पसमानवाच्पता न यतस्तत्स्फुटताभितः कृतः ॥ ॥ [8] जगदुत्पतिप्रलयौ कमलजनितमुवाच तत्तदसत्। वेदानां मित्पत्वाच्छु तिवाक्यानां वातिर्भवति । । [9] शीघ्रक्रमान्निरुक्ता होरादिनमासवर्षपा धात्रा मंददिनांकादेर्वेति न वा तस्वरूपमपि । Ms. B : 5 c न हि, जिप्णुसुते° 7 a °रंशकः 8 d गतिर्भवति