पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१२

पुटमेतत् सुपुष्टितम्
वाग्व्यवहारादर्शः

(८|१।४७) इति पाणिनीयं सूत्रं लिङ्गम् । चेच्छब्दंश्च न वाक्यादौ प्रयुज्यत इति चेत्कृष्णं नंस्यसि स्वर्गे यास्यसीति न शक्यं वक्तुम्। इदं चात्रापरमवधेयम्- चेच्छब्दप्रयोग उत्तरवाक्ये तदा तर्हीत्यादि पदं न दीयते । कृष्णं चेन्नंस्यसि तदा ( तर्हि) स्वर्ग यास्यसीत्येवं वक्तारो व्यवहारमतियन्ति । अथ चेदिति निपातद्वयं चेदर्थे वाक्यादौ कामं प्रयुज्यते-अथ चेत्त्वरते कर्तृ दिवसं मारुताशनः । इति वसिष्ठः । हिशब्दमपि वाक्योपक्रमे नेच्छन्ति वाग्विदः सूरयः । यथा यथा हि पुरुषः शास्त्रं समधिगच्छति ( मनु० ) इत्यत्रेवान्यत्रापि पदात्परस्यैवं हिशब्दस्य योगोऽभ्यनुज्ञायते ।

लिङ्गसंख्ये

 उक्तः पदक्रमः । लिङ्गसंख्ये सम्प्रत्युच्येते । इदं तावदभ्युपेयं दुर्ग्रहो लिङ्गमेदः। अन्तर्वाणयोऽप्यत्र मुह्यन्ति । वैयाकरणाः . खलु प्रत्ययतो लिङ्गमुन्नयन्ति प्रायेण । न च सर्वत्र प्रत्ययाश्रय एव लिङ्गावसायो लोकाश्रयश्चापिं । नदी कुमारी स्त्री गौरी मतिरीहा ब्रह्मबन्धूरित्यादिषु प्रत्ययतो लिङ्गोन्नयः । अवीलक्ष्मीतरीतन्त्रीह्री- धीश्रीषु तु लोकतः । कश्चिच्छब्द एकार्थक एव नानालिङ्गको दृष्टः । तटस्तटी तटम् । कश्चिदर्थभेदे लिङ्गभेदमुपगच्छति । यथा--काननवाच्यरण्यशब्दो नपुंसकम्, महत्वविशिष्टः स एव स्त्रियां भाष्यतेऽरण्यानीति । सरस्वच्छब्दः पुंसिं समुंद्रमाह, स्त्रियां तु नदीविशेषं सरस्वतीम् । गोष्ठमिति गवां स्थानमाह, गोष्ठीतिं च संसदम् । गन्धवहः पुमान् वायुमाचष्टे, गन्धवहा स्त्री तु नासिकाम् । दुरोदर इति कितवं वक्ति, दुरोदरमिति च द्यूतम् । सर् इति कासार इत्युच्यते, सरसीति च दाक्षिणात्येषु महत्सरः । जलाशयो जलाधारो भवति; जलाशयं तूशीरम् । कुटशब्दो घटे पुंलिङ्गो गेहे तु स्त्रीलिङ्गः, कुटीति । द्रोणशब्दः परिमाणविशेषे पुल्लिङ्गः । गवादन्यां तु स्त्रीलिङ्गः द्रोणीति । तरणिर्द्युमणौ वर्तमानः पुमान् भवति, कुमार्या नौकायां न स्त्री। कुंशो दर्भो भवति, कुशं जलम्, कुशा वल्गा, कुशी च फालः । शिवः कीलो भवति । शिवा तु क्रोष्टाऽऽमलकी च । पिशुनं कुङ्कुमं भवति, पिशुनस्तु सूचकः, पिशुना तु सूचिका नारीत्यलं विस्तरेण ।

 आतश्च लोकाश्रयो लिङ्गावसायः। स्थूणेति/टायन्तं स्त्रीलिङ्गम् , गृहस्थूणमितिं चं नपुंसकम् । जलेनार्द्रमिति जलार्द्रा व्यजनविशेषः । ऊर्णेति स्त्रियां


१. ’तरणिर्द्युमणौ पुंसि च कुमारीनौकयोः स्त्रियाम्’ इति औणादिकपद्गार्णवे (२।३७३)
२. कुशी फाले कुशो दर्भे कुशा वल्गा कुशं जले–इति हैमः ।
३. शिव कीलः .क्रोष्टा भवेदामलकी शैिवेति शाश्वतः ।
४. स्थूणोर्णे नपुंसके च ! गृहशशाभ्यां क्लीबे । इति पा० लिङ्गा० ।