पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१३२

पुटमेतत् सुपुष्टितम्
१२८
वाग्व्य्वहारदर्शः

२८१-इदं चाध्यापकैरध्यायिभिश्च समं स्मरणीयमुभयांलङ्कारो बोधोपजन इति ।
२८२-तस्य जनसेवाकार्यकलापैः सह विद्यायामपि सविशेषांऽभिरुचिरभूत् ।
२८३-अत्रत्यं सर्वं चिकित्सादिकार्यमेकस्य महावैद्यस्य संरक्षणे भवति।
२८४–पुत्रा हि पितरौ जीवद्दशायां प्रीणयेयुः, उपरतयोस्तयोर्भक्तया श्रद्धया वां न कश्चिदर्थः।
२८५-हंसकारण्डवादिपदाभिधेयाः के नाम पक्षिण इति केचिद् भाग्यवन्त एव परिचिताः स्युः ।
२८६-नेदानीं सन्त्युपयुक्ता ग्रन्था इति न सारवद्वचः ।
२८७-बद्धानामप्यपराद्धानां सर्वा आवश्यकताः पूरणीया भवन्ति राजभिः ।
२८८-कौटलीयार्थशास्त्रप्रभृतीन् ग्रन्थान् विलोक्य परं विस्मयन्ते युरोपीया राजनीतिकाः ।



२८१–अध्यापकैरध्यायकैश्चेति न्यासः शोभनतरः स्यात् ।
२८२–जनसेवाकार्यकलापेष्ववेति वक्तव्यम् । यथास्थिते तु कार्यकलापानां विद्या याश्च साहचर्यं गम्यते तच्च न विवक्ष्यते । अपिशब्दश्चैवं व्यतिरिक्तो भवति। कार्यकलापाश्चाभिरुचेर्विषयो न भवन्ति । कार्यकलापैः सहाभियचिरियन्वये त्वस्थाने सहशब्दः । नहि सहशब्दो विषयं वक्ति, किन्तर्हि साहचर्यम्।
२८३–वैद्यस्य संरक्षणे भवतीत्यपास्य वैद्येन संरक्षितं वर्तते । संरक्षण इति सप्तमी किमर्थिका । वैद्ये च महच्छब्द उपपदं न देयम् । तथा चोक्तम्-“शंखे तैले तथा मांसे वैद्ये ज्यौतिषिके द्विजे । यात्रायां पथि निद्रायां महच्छब्दो न दीयते ॥ इति ।
२८४– जीवद् दशायां इत्यस्य जीवतोर्दशेत्येव विग्रहः । का सेति च नोक्तम् । पितरौ जीवन्तौ जीवौ वा प्रीणयेयुरिति वक्तव्यम् ।
२८५- इति परिचितवन्तः स्युः । परिचिनोतेः कर्तरि क्तवतुः। परिचिता इत्यत्र कर्मण्येव क्तः, स चार्थमभिवाञ्छितं नार्पयति ।
२८६- उपयोगिनो ग्रन्था इति वक्तव्यं। उपयुक्ता नियमपूर्वकधीता
     भवन्त्युपयोगं वा येन केन प्रकारेण नीताः ।
२८७- आवश्यकतेति शब्द एव नास्तीत्यसकृदुक्तमघस्तात् । तेनेह अपेक्षितमर्थजातं संविधेयं कल्प्यमिति वा वक्तव्यम् ।
२८८– राजनैतिका इत्यत्रोभयपदवृद्धिर्दुर्लभा । अनुशतिकादिषु राजनीतिशब्द स्यान्तर्भावे प्रमाणविरहात् । ठकुठञो चापि दुर्लभौ । तेन राजनीतिशब्दात् तदधीते तद्वेदेत्यण् प्रसक्तः, अनिष्टरूपप्रसङ्गश्च । तस्मान्नीतिविदो नृपनीतिविदो वेति वक्तव्यम् ।



      १. ज्ञानवृद्धिः।