पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१४

पुटमेतत् सुपुष्टितम्
१०
वाग्व्यवहारादर्शः

 संख्यामधिकृत्य न बहु वक्तव्यमस्ति । एकत्वादीनां वाचिका विभक्तयो यथाविषयं प्रवर्तन्ते । परं क्वचिदेकत्वेऽपि बहुवचनं श्रूयते । कथं महाराजदशरथस्य धर्मदारा इयं कौसल्या । कष्टमभिज्ञायते सैवेयमिति । अत्र पत्न्याः कौसल्याया एकत्वेऽपि दारशब्दो बहुत्वे पुंसि प्रयुक्तः । क्वचिदात्मनि बहुमानेनापि बहुवचनं प्रयुज्यते यथोक्तं षड्गुरुशिष्येण वेदार्थदीपिकायाम् -

व्याख्येयार्थबहुत्वेन बहुमानेन चात्मनः ।
व्याख्यान्नात्मन्यथारोप्य बहुत्वं तु प्रयुज्यते ।
यथाहि निधिमासाद्य प्रयुञ्जानस्तु दृश्यते ।
एते वयं समृद्धार्था देवोऽस्मासु प्रसीदति ॥
इति ।

 वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः ( वैराग्य०, “ श्लो० ५३ ) इति राजानं प्रति यतेरुक्तिर्बहुमानगर्भितेति युज्यते बहुवचनम् । परमन्तरेणापि बहुमानमेकस्मिन्वक्तरि बहुवचनं व्यवहारानुगं भवति । इह पुष्यमित्रं याजयाम इति वर्तमाने लडिति सूत्रे भाष्यकारस्यात्मानं प्रत्युक्तिः । तन्नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं मह इति मल्लिनाथः । इदं च चारुतरमुदाहरणं भाष्यस्थम्-यथा यो यत्राप्रधानं भवति स आह-गुणभूता वयमत्रेति ( प्राक् क्रीताच्छः ५|१|१) । अस्मदो द्वयोश्चेति शास्त्रमप्यत्रार्थे प्रमाणम् । तेन ग्रामे नः कृत्यमिति साधयामो वयमिति प्राकृतोऽप्यर्हति वक्तुम् । सविशेषणत्वे त्वेकवचनमेव यथाप्राप्तं भवति । देवदत्तोऽहं ब्रवीमि। आत्मशब्दप्रयोगोऽप्येकत्व एव दृश्यते न्बहुत्वेऽपि व्यक्तीनाम् । तद्यथा भारते प्रयोगः—मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम् ( प्रजागरपर्वणि ३४|४५ )। बहुधा च प्रयुञ्ज्महेऽज्ञा आत्मानं कृतिनं मन्यन्त इति । एक आत्मेति पक्ष एकवचनमुपपन्नमेव । नानात्मान इति नैयायिकादीनां पक्षेऽप्येकवचनं नायुक्तम् । प्रत्येकं वाक्यपरिसमाप्तेः । अज्ञाः प्रत्येकमात्मानं कृतिनं मन्यन्त इत्यर्थात् । यदिहात्मशब्दविषय उक्तं तदात्मवा चिनि स्वशब्देऽप्यवितथम् । एवं लपन्तोऽज्ञाः स्वस्य जाड्यमुदाहरन्ति । अत्र स्वेषामिति वदन् बाढं भवत्यपशब्दभाक् ।

 द्वयोर्द्वयोरर्थयोर्वाचकाः स्तनादयो बहुभिरभिसम्बध्यमाना अपि द्वित्वं न जहति प्रायेण । तदुक्तं वामनेन-स्तनादीनां द्वित्वाविष्टा जातिः प्रायेणेति । तद्यथा—इह स्थितानां नः श्रोत्रयोर्मूर्छति तूर्यनादः। चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः! श्रान्ता वयम् । नाग्रतो नश्चरणौ प्रसरतः । ये बाहुभ्यां नदीं तरन्ति ते बाहुका इत्युच्यन्ते । परं नायं नियमः । इदं प्रायिकमिति वामनेनैव शब्दत उक्तम् । तेन ‘शूरबाहुषु लोकोऽयं लम्बते पुत्त्रवत्सदेति’ भारते (शां०.९८|१७ ) बहुवचनं 'संगच्छते । तत्र शूराणां बाहवस्तेष्विति विग्रहः ।