पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१४४

पुटमेतत् सुपुष्टितम्
१४०
वाग्व्यवहारदर्शः

३७५-नासीराधिकारस्य प्रश्नो नूनं जीवनमरणयोः प्रश्नं आसीत् ।
३७६-भृशमहमाभारी तेषामिति संकार्तज्ञ्यं निवेदयामि ।
३७७–तत्र काले प्रजाभ्यः कीदृशा: कियन्तश्च दण्डा अदीयन्तेति गौतमधर्मसूत्रादिभ्यः शक्यं विज्ञातुम् ।
३७८-सर्वांस्तास्ता भाषाः संस्कृतवाच एवोपजीव्या:।
३७९-नहि सर्वेर्थाश्चाटुकारानुवर्तनाभ्यामेव सुसाधा भवन्ति ।
३८०-तस्यापमानोपर्यपमानो भवति तथापि नासौ स्वमाचारं समाधत्तें ।
३८१–परं त्वया तु मद्वार्ताऽमननस्य शपथ एव कदाचिद्धृतः ।
३८२–सा कोपनप्रकृतिरासीदिति मतविसंवादं मनागपि नासहिष्ट ।



३७५- नासीराधिकारान्वयव्यतिरेकायते नो जीवनमरणे इति व्यवस्थितमासीत् । एवमुच्यमानं संस्कृतवाग्व्यवहारमनुविधत्त इति मन्ये । कथं वा दोषज्ञा मन्यन्ते ?
३७६- बह्वहं तेभ्यो धारयामीति कृतवेदितया निवेदयामि । एवं हि शिष्टा अभिप्रायं प्रवेदयेयुः । आभारति तु संस्कृते ऋणिनि न कंचित्प्रयुज्यते । कार्तज्ञ्यमिति साध्वपि परुषाक्षरमिति परिहरेयुर्वाङ्माधुरीं स्पृहयन्तः ।
३७७–न हि दण्डो दीयत इति व्यवहारः । दण्डो नाम प्रणीयते धार्यते निपात्यते वा ! तेन प्रजासु कीदृश दण्डा प्राणीयन्त, अधार्यन्त, न्यपात्यन्तेति वा वक्तव्यम् ।
३७८-एवं विपरीतमुक्तं भवति । संस्कृतवाचमेवोपजीवन्तीति तु वक्तव्यम् ।
३७९-चाटु करोतीति चाटुकारः । अयमर्थस्तु प्रकृतेऽसङ्गतः । चाट्वनुवर्तनाभ्यामिति तु वाच्यम् ।
३८०--उत्तरोत्तरमपमान्यमानोऽप्यसौ न स्वमाचारं समाधत्त इत्येवं वक्तव्यम् । सर्वत्र प्रचरद्भाषाछायेयं भवत्युत परिशुद्धमकृतकं संस्कृतमित्यत्र प्रतिजागरितव्यम्
३८१-त्वया तु नाहं ते वचोऽङ्गीकरिष्यामीति शप्तमिव भातीत्येवं वक्तव्यम् । शपथं शपत इतं चं क्वाचित्कः प्रयोगः । शपथं धरतीति तु न क्वचिदपि श्रुतः ।
३८२ कोपनाऽऽसीदित्येव पर्याप्तम् । ताच्छील्ये युच् । तेनैव प्रकृतिशब्दो गतार्थः।



      १. उपकृत इत्यथों विवक्षितः ।।