४३७-श्रीविष्णुदिगम्बराणां रागपरिवाहिणा गायनेन समं सभाकार्यमारब्धम् ।
४३८-एष हि मनुष्यस्वभावः परेषां हास्यास्पदतासाधने त्रुटिं न स्थापयंन्ति ।
४३९-ऋषिमुनीनां शक्तया सह स्वशक्तिर्न जातु तोलनीया।
४४०-वृद्धो नाम मन्ददृष्टिरपिं कर्णाभ्यां पश्यति, क्षीणश्रवणशक्तिरपि नेत्राभ्यां
श्रुणोति । अर्थात् प्रकृतिरस्य क्षीणामेकेन्द्रियशक्तिमपरस्मिन्निन्द्रियेंऽशतोऽर्पयतिं ।
४४१-न चैवंविधं रूपकं कुत्रचिदन्यत्र दृष्टमिति पूर्वमेवोपरिष्टान्निगदितम् ।
४४२-शुचि मृदुलधवलसूक्ष्मवसनमास्तीर्य जलार्द्रा१पवनैरात्मानं निर्वापय२ ।
४४३–संसारे चिरं संसरत्सुगतो महात्म दुखान्तं गवेषमाणो
दयादाक्षिण्यादिधर्ममनुतिष्ठन्नन्तेऽपवृज्यते३ ।
{{rule||
४३७-गायनो गायुको भवति । गायति शिल्पमस्येति गायनः ! ण्युट् चेति
ण्युट् । तस्माद् गानेन गीतेनेति वा वक्तव्यम् ।
४३८-मनुष्याणां स्वभावो यत्ते परेषां हास्यास्पदतायाः साधने यत्नं न शेषयन्तीति
वक्तव्यम् । सर्वनाम्नां प्रधानपरामर्शित्वमिति मनुष्याणां स्वभाव
इत्यसमासेन निर्देशः कार्यः । तच्छब्देन मनुष्याः परीमृश्येरन्यथा।
४३९-ऋषिमुनीनां शक्त्या स्वशक्तिर्न जातु तुलनीयेति वक्तव्यम् । अत्र सहशब्देन
नार्थः। अत्रार्थे तुलां करोति च तुल्यतीति प्रयोगो भवति न तु तुल
उन्माने इत्यस्य’चौरादिकस्य । तथा च मेघदूते प्रयोग: –
प्रसादस्त्वां तुलयितुमलं, यत्र तैस्तैर्विशेषैरिति ।
४X४-अर्थादिति पदं वाक्यादौ पदान्तरेणानन्वितं स्वातन्त्र्येण न प्रयुज्यते । तेन
अयमर्थ इति वा एतदुक्तं भवतीति वा वक्तव्यम् ।
४४१-ग्रन्थपत्त्राणां पूर्वपूर्वेषामधस्तान्निवेशादुत्तरोत्तरेषां चोपरिष्टाद् इति यत्पूर्वपत्नेषु
विन्यस्तं तदधस्तादुक्तं भवति यदुत्तरपत्रेषु तदुपरिष्टादिति व्यपदिश्यते ।
अत्र च किञ्चिदुक्तपूर्वं तेनाधस्तान्निगदितमिति वक्तुमुचितम् ।
४४२-वसनमाच्छाद्य, वसनं निवस्येति वा वक्तव्यम् । यद्यपि स्तृञ् आच्छादने
इति स्तृणोतिराच्छादने पठितस्तथापि शय्यामांस्तृणोतीत्यादिषु प्रयुज्यते
न तु परिधनेस्य प्रवृत्तिः ।
४४३-संसरतिर्योन्यन्तरोपसंक्रमणे रूढः । ये देहाद् देहान्तरं गच्छन्ति ते संसारिणः।
परिक्रामेन् इति पर्यटन्निति वा वक्तव्यम् । गवेषु मार्गणे इति
चुरादिष्वदन्तः पठितः । तेन णिचि गवेषयोमाणे इति साधु स्यात् ।
१ जलयुक्तव्यञ्जनस्य जलार्द्रेति संज्ञा ।
२ शीतलय ।
३ अपवगं लभते ।