६३४-शताभिधानानि रवेरिमानि नित्यं स्मरेद् भूतिकामः ।
६३५–एकत्र देशे खट्वावानं प्राधीयतेऽन्यत्र च पद्यरचनेति.तत्र सहजायाः
शक्तेर्भेदो रुचिभेदश्च कारणम् ।
६३६-योऽर्थः पुरुषेणैकेन न साध्यः स पुरुषग्रामेण सहेलं साध्यो भवति ।
६३७–तात्कालिकीमरुचिं वैरस्यं वाऽपाकर्तुं हास्यस्यावलम्बनं गृह्यते ।
६३८-प्रागैतिहासिकात्कालादद्य यावत् सुधामयी संस्कृतसाहित्यधाराऽविच्छिन्नं
प्रवहति ।
६३४- शताभिधानानि शतं नमानीत्यनर्थान्तरम् । शतमभिधानानीत्येवं व्यासेन
वक्तव्यम् । दिक्सङ्ख्ये संज्ञायामं ( २|१|५० ) इति
पाणिनीयशासनेन समानाधिकरणे दिक्संख्ये संज्ञायामेव संमस्येते
नाऽसंज्ञायाम् । यथा सप्तर्षय इत्यत्र । यथा वा पञ्चाम्रा इत्यत्र । अत्र
सामानाधिकरण्यमस्ति,संज्ञा नास्तीति समासो दुर्लभः ।
६३५- अत्र प्राधीयत इति दुष्यति । अध्ययनं शब्दक्रियं शब्दकर्मकं च
भवतीति व्यवहारनैयत्यम् । वानं वा पद्यरचना वा गृह्यते शिक्ष्यते न
त्वधीयते । वेदोऽधीयते स्मृतयश्चाधीयन्ते । किं च । प्रशब्दोऽप्यस्थाने ।
अधीङ्ः पूर्वं प्रयुक्तः प्रशव्द आदिकर्मणि वर्तते, प्राधीत इत्यत्र यथा ।
अध्येतुमारब्धः प्राधीतः, अधीतिप्रतियोगी ।
६३६- पुरुषग्राम इत्येतद् व्यवहारो न समर्थयते । समूहवचनोऽपि ग्रामशब्द
इन्द्रियग्रामः, गुणग्राम इत्यादिष्वेव दृश्यते, न तु यत्र तत्रासंकोचम् ।
समासान्तः सन्नेव च समूहार्थेऽवतरति प्रयोगम् । न स्वतन्त्रा प्रकृतिः ।
इदं शब्दस्वाभाव्यम् ।
६३७- हास्यस्यावलम्बनं गृह्यत इति दुष्टो न्यासः। हास्यमवलम्बनं गृह्यते ।
हास्यमेवावलम्बनं न तु तत्सम्बन्धि किञ्चित् ।
६३८- किमिदं प्रागैतिहासिकात् कालात् इति । इदमुपार्थकं पदकदम्बकम ।
ऐतिहासिको हीतिहासज्ञमाह यथा पौराणिक इति पुराणपाठिनं
पुराणज्ञम् । प्रागिति पूर्वस्मिन्कालेर्थे सप्तम्यर्थवृतिं । ततः पूर्वस्मिन्काले
भवः कश्चिदैतिहासिकः,तत इत्यर्थः स्यात् । एवमपि नैतत् कालं
विशिंष्यात् । वक्तुश्च नैषा विवक्षा । आङ्गल्या
वाचोऽनुचिकीर्षयैकपदनिर्मित्सा भ्रंशयति वक्तारं वाक्सरण्याः।
परं नहि तद्धिताः सन्तीति ते यतस्ततः प्रकृतेः समुत्पाद्याः,
नूतनशब्दनिर्मित्साकण्डूया च स्वस्य विनेया ।
तस्मात्सन्दर्भशुद्धिमभीप्सता परत्र, बोधसङ्क्रान्तये
दुर्लभेतिहासाच्चिरातीतात् कालादित्येवं वक्तव्यम् ।
ऐकपद्यलाभाय तद्धितवृत्तौ नातीवाभिनिवेष्टव्यम् ।