पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१८

पुटमेतत् सुपुष्टितम्
१४
वाग्व्यवहारादर्शः

धिकरणवृत्तिः। पुष्यन्त्यर्था अस्मिन्निति पुष्यो नाम नक्षत्रम् । वेदे खल्वप्ययमकर्मको दृष्टः । तद्यथा—पुनरेता निवर्तन्तामस्मिन्पुष्यन्तु गोपतौ (ऋ० १०।१९|३॥)। अन्यत्राप्यकर्मकत्वाङ्गीकारेण व्युत्पत्तिर्दृश्यते-पुष्यति जले पुष्करः पद्मम् । पुष्णाति धान्यादिकमिति जलादिकमपि । पुष्यति शब्दोऽत्र, वाद्यमुखं चेति पुषः कित् इति सूत्रे (उणा० ४।४) नारायणः । चरके खल्वपि पुषिरकर्मको दृष्टः । स्रोतांसि रुधिरादीनां वैषम्याद्विपमं गताः । रुद्ध्या रोगाय कल्पन्ते पुष्यन्ति च न धातवः ॥ इति (चिमान० ३।२४) । स्त्रोतसा च यथा स्वेन धातुः पुष्यति धातुत इति च तत्रैव (चिकि० ८|३९) । भट्टिरपि पुषिमकर्मकं प्रयुङ्क्ते । तद्यथा—अस्त्रीकोऽसावहं श्रीमान् स पुष्यतितरां तव । पतिरित्यब्रवीत् (४।२९) । देह इहापुष्यत्सुरामिषैः (१७।३२) इति च । अत्र देहमपुष्य इति पाठान्तरम् । तत्र देहं पोषितवानसि । अन्तर्भावितण्यर्थो द्रष्टव्य इति जयमङ्गला ।

 दिवादिषु येऽकर्मकास्त एव गणान्तरेऽनूदिताः सकर्मका भवन्ति । प्रीड् प्रीताविति दिवादिष्वकर्मकः। तथा च कवीनां प्रयोगाः--तत्र सौधगतः पश्यन्यमुनां चक्रवाकिनीम् । हेमभक्तिमतीं भूमेः प्रवेणीमिव पिप्रिये ॥ इति रघौ (१५।३०) । येनैवास्मासु प्रीयते भगवान्भुवनगुरुर्मैरवाचार्य इति हर्षचरिते (पृष्ठे १०२) । प्रक्राममप्रीयत यज्वनां प्रिय इति च माघे (१।१७ ) । भारते खल्वपि-प्रीयामहे भवतां संगमेन (सभा० ५८।८॥) । परं प्रीणातीति प्रिय इति क्रैयादिकेन व्युत्पत्तिर्दर्शिता न तु दैवादिकेन । दिवादीन् व्याचक्षाणो दीक्षितो यदाह-राधो हिंसायाम् इत्येत्वाभ्यासलोपाविह न, हिंसार्थस्य सकर्मकतया दैवादिकत्वायोगाद् इति तदपि नो दर्शनं समर्थयते । रुष रिष हिंसायां दिवादी अकर्मकौ । ठावेव भ्वादी सकर्मकौ । ‘मा वो रिषत् खनिता यस्मै चाहं खनामि वः’ इति (ऋ १०।९७।२०) । अत्र रिषत् इति दिवादिरिषेर्लृड्। मा रिषत् हिंसां मास्म प्रापदित्यर्थः । कुर्मस्त आयुरजरं यदग्ने यथा युक्तो जातवेदो न रिष्याः (ऋ १०।५२।७ ) न म्रियस इति सायणः । धर्तारस्ते मेखले मा रिषामेति च मन्त्रब्राह्मणे (१।६।२८॥)। न वा उ एतन्म्रियसे न रिष्यसि इति शुक्लयजुःसंहितायाम् (२३।१६)। श्रमेण तपसारिषंस्तस्मादृषय इति च शतपथे (६।१।१।१) । अरिषन्निति लुङि रूपम् । अतः सकर्मकत्वलाभाय णिच्प्रयोगः सूपपन्नो भवति—उदुस्र तिष्ठ प्रतितिष्ठ मा रिषो मेमं यज्ञं यजमानं च रीरिष इत्यत्र ( आप० श्रौ० ९।५।१८I९ ) । एवं ह्यायुर्न रिष्यतीति वसिष्टधर्मसूत्रे (६।१०॥ ) । रुषिः क्रोधेऽपि वर्तते । क्रोधो नाम हिंसां प्रयुङ्क्ते । क्रोधमूला हि सा । नाक्रुद्ध्वा हिनस्तीति हिंसार्थः क्रोधार्थे संक्रान्तः। क्रोधार्योऽपि