पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१८२

पुटमेतत् सुपुष्टितम्
१७८
वाग्व्यवहारादर्शः

परमा सिद्धिरगम्या कामगोचरैः ( भा० वन० २६१|२४)। कामगोचरः कामायत्तः कामवक्तव्यः ।

 सुखोच्चार्यं तु तन्नाम कुर्याद्यत्प्रवणाक्षरम (वि० पु० ३|१०|११) । प्रवणं क्रमनिम्नमुच्यते । इह प्रवणाक्षरं लघ्वक्षरान्तमुच्यते । इदं च शब्दवित्तमो व्यास इत्यस्य निदर्शनम् ।

 अन्तरशब्दमधिकृत्य किञ्चिदुक्तमधस्तात् ! अत्रानुक्तमुपन्यस्यते—भुवः संज्ञान्तरयोः (पा० ३।२|१७९ )। अत्रान्तरशब्दः प्रतिभूवचनः। भवति च याज्ञवल्क्यस्मृतौ तदर्थे प्रयोगः -अन्तरे च तयोर्यः स्यादिति (२।२३९) । क्षात्रमाचरतो मार्गमपि बन्धोस्त्वदन्तरे (भा० शां० १०|३ ) । त्वदन्तरे त्वत्तोऽन्यत्र । क्षमानुकम्पादयः क्षात्रं मार्गमाचरत्सु क्षत्रियेषु न विद्यन्ते त्वय्येव केवलं वर्तन्त इत्याह । तेन तव विरूपकरणे सुकृतमन्तरे धृतम् (पञ्चत० ४)। अन्तरे धृतं लग्नकमित्यर्पितम् इत्यर्थः । भार्यापत्योरन्तरं ज्ञातिभेदम् (भा० उ० ३५|४३ ) । अन्तरं वियोगः

 स्वीकारोऽङ्गीकारोऽभ्युपगम इति सर्वस्य विदितं बालस्यापि । इदं तु न विदितं स्वीकारो वशीकरोपि भवति, तद् वेद्यते द्रव्यमप्यस्य स्वीकरिष्यामि (यो० सू० २।३३ भा० )| वशे करिष्यामि स्वतां नेष्यामीत्यर्थः। लुब्धमुत्कोचदानेन स्वीचक्रे दण्डनायकम् (राजत० ७|११५५)। स्वीचक्रे वशे चकारेत्यर्थः ।

 तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायत (शिशु० २।३०) इत्यादिषूरीकृत्ये- त्यस्याङ्गीकृत्येत्यर्थः प्रतीतो न प्रत्याय्यः । अस्त्यस्यार्थान्तरं विविदिषाविषयः । एकाकी तावतो वीरनूरीकृत्य स निर्ययौ (राजत० ८|१४९८) । ऊरीकृत्य सहादय । धार्तराष्ट्रादयः पञ्च पाण्डवानूरीकृत्य पञ्चोत्तरं शतं कुरवो भवन्ति । ऊरीकृत्य = अन्तर्भाव्य। मालविकायां(५) चेत्थम्भूतः प्रयोग एतस्यार्थस्य निदर्शकः–-मौद्गल्य ! यज्ञसेनश्यालमूरीकृत्य मुच्यन्तां सर्वे बन्धनस्थाः ।

 अन्यत्रापि यदा षष्ठी मङ्गलेन भविष्यति (वामनपु० ४१|२८) । मङ्गल- वासरेणोपलक्षिता षष्ठी तिथिः, ‘मङ्गलवासरः ' षष्ठी. तिथिरिति तादात्म्ये वा प्रकृत्यादित्वातृतीया बोध्या। मङ्गलवासरस्याधिकरणत्वाभावेन तत्र सप्तमी न युक्तेति तृतीयाव्यवहारेण सुप्रतिष्ठा प्रयोगसरणी रक्षिता पुराणकारेण ।

 सरलवृद्धिश्चक्रवृद्धिरित्यादिषु धनिकधारणकयोः संव्यवहारे यो वृद्धेरर्थः स तिडन्तेन वृधिनािपि शक्यते वक्तुम् । तथा च ( याज्ञ० २।३९) मिताक्षरायां पठ्यते- तस्मिन्नेव वा पुरुषे रेकसेकाभ्यामनेकशः प्रयोगान्तरकरणे सुवर्णादिकं