आखेटार्थे गमने व्यवहारत्रैविध्यं दृश्यते । तदेतदुदाहरणैर्व्यक्तिं नीयते । अय स नृपतिराखेटं जगाम । स चचार सहामात्यो मृगयां गहने वने ( भा० आदि० १७५|५) चरन्तो मृगयां हृष्टाः (रा० ३|४३|५) । मृगयां चरन्तो मृगयार्थे पर्यटन्त इत्यर्थः । सविषं - काण्डमादाय मृगयामास वै भृगम् ( भा० अनु० ५|३ ) ।
सृज विसर्गे इत्यस्य समुत्पादने प्रेषणे क्षेपणे ( अस्त्रादीनां मोचने ) प्रथन्ते प्रयोगाः। प्रेरणायां प्रवर्तनायां चोदनायामपि विलोक्यते सृजिः--बुद्धेि द्रव्येषु सृजति विविधेषु परावरां ( भा० वन० १०१।२२) ।
अन्तःपूर्वस्येण व्यवधानेऽर्थे सकर्मकत्वेन प्रयोगः शतपथे राजते । तत्रावधेयं व्यवहारे वैशारदीं विवित्सुभिः। संवत्सरात् सपत्नानन्तरायन् (१|५|३|४)। अन्तरायन् व्यवादघुः । इदं वै मा सोमादन्तर्यन्ति ( श० ब्रा० १|६|३|७ ) उक्तोऽर्थः ।
अत्रापि व्यवहारेऽनधीयीताम् । तं तथा नृपशार्दूलं तप्यमानं महत्तपः। शङ्करः परमप्रीत्या दर्शयमास भारत (भा० आदिं० २२३|४० )। तच्छन्दा- नुवर्तितया स्वयमेव स्वस्य दर्शनं तस्मै प्रायच्छदित्यर्थः । अत्रात्मानम् इति नोक्तम् । तस्यावचनमेव व्यवहारानुरोधि, वचनं तु तद्विरोधि । एषा वाक्सरणिरे- तस्यार्थस्य प्रवेदने प्रतितिष्ठतीति विज्ञेयम् । अन्यत्रापि भारत इत्थम्भूतः प्रयोगः-- स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति सोऽब्रवीत्। (आदि० ६३|८५)।
इत्युक्त्वा धर्मराजाय प्रेषयामास वै तदा (भा० आश्रम० ८|१०)। अत्र दूतमिति नोक्तम् । अनुक्तिरेव व्यवहारानुगा । प्राहिणोद् विदुराय वै ( भा० सभा० ४९।५० ) । इत्यत्रापि तथा । एतस्याः शैल्याः प्रचरद्भाषयाऽपि हिन्द्या संवादो लक्ष्यत आश्चर्यः ।
शुध शौच इति दिवादेरयमपि प्रयोगः प्रयोगशुद्धयेऽवगन्तव्यः -– नहि मे शुध्यते ( = शुध्यति ) भावः कदाचिद् विनशेदपि ( भा० वन० ६०|१८)। एतदाचक्ष्व मे शीघ्रं नहि शुध्यति मे मनः ( भा० वन० १३७|५ ) नहि मे शुध्यते भावस्तं वीरं प्रति शोभने ( आदि० १२९|९ )। शुध्यति मावः - विशदो भवति शङ्कापेतो भवति, निर्वृणोति ।
प्ारयेण ' ण्यन्तकः साधिर्गमेरर्थे प्रयुज्यत इति दर्पणकारः । ततोऽन्यत्राप्यु- पलभ्यते प्रयोगः, सोऽयमीक्ष्यताम्--कृष्णे नयो मयि बलं जयः पार्थं धनञ्जये। मागधं साधयिष्याम इष्टिं त्रय इवाग्नयः (भा० सभा० १०|३) ॥ वशे करिष्याम इत्यर्थः ।