पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१८८

पुटमेतत् सुपुष्टितम्
१८४
वाग्व्यवहारादशः

द्रा कुत्सायां गताविति धातुर्निपूर्वः स्वापे संवेशे प्रसिद्धः, परं यदि निद्रायात्कामं स्वप्याद् (श.ब्रा०. ३|९|३|११) इत्यत्र निद्रा प्रमीलामाह । निद्रायात् प्रमीलितः प्रचलायितः स्यात् ।

 अर्तेर्ऋच्छतेर्वा .ण्यन्तस्याण्यन्तस्य वा प्रयोगे सविशेषमवधेयं व्यवहारे कोविदैर्बुभूषुभिः। ऋ गतौ, ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेष्विति धातू । इयं वै तं निरर्पयति यो निऋच्छति ( श० ब्र० ७|२|१|११ )। योऽपराध्यति परस्मै परं वा क्षिणोति तमियं दुःखेन युनक्तीत्याह । ततस्त्वमषी क्रोधसन्दीप्तनेत्रो वातात्मजः पणिना पाणिमार्च्छत् ( भा०.कर्ण० ८९|३६ )। आर्च्छत् अताडयत् । पाञ्चाल्यं त्रिभिरानर्च्छत्सात्यकिं नवभिः शरैः (भा० भीष्म० ४७|३१ )। आनर्च्छत् = आर्च्छत् = अविध्यत् । अर्जुनः पञ्चविंशत्या भीष्ममार्च्छच्छितैः शरैः (भा० भीष्म० ५२|४८) । उक्तपूर्व -एवार्थः । बहुधा भीष्ममानर्च्छु मार्गणैः क्षतमार्गणैः (भा० भीष्म ० ११८|४८) ।

 केवलोऽप्यत ऋच्छतिः समासत्तौ , समासने वाऽपि वर्तते-राज्ञश्चान्यान्रणे शूरान्बहूनार्च्छद् धनञ्जयः (भा० भीष्म० ७२|२)। स्थाणुं वर्च्छति गतं वा पात्यते (का० सर्वानु०) इत्यत्र स्थाणुना प्रतिहन्यत इत्यर्थ इति ऋच्छतिः प्रतिघाते वर्तते । भारतेपि तत्रार्थे प्रयोगः --प्रमत्तः स्थाणुमृच्छति (.सभा ६५|१९ )। ण्यन्तस्तुं प्रायेण व्यधने वर्तते । बहुलं चात्रोदाहरणम् । मा ते मर्म विमृग्वरि मा ते हृदयमर्पिपम् (अथर्व० १२|१|३५) । मा अर्पिपम् माऽपिपीडम्, मा व्यात्सम् । द्रोणं षष्ट्या महाराज बाह्वोरुरसि चार्पयत् । स विद्धो व्यथितश्चैव (भा० भीषम० १०१|४६-४७ )। व्यक्तमिहार्पयद् अविध्यदित्यनर्थान्तरम् उत्तरार्द्धे विद्ध इत्युक्ते! वार्ष्णेयं समरे क्रुद्धो नाराचेन समार्पयत्। शैनेयं स तु निर्भिद्य (भा० भीष्म १०१|४९-४९ )। इहापि समर्पयदिति निरभिनदित्यनेन समानार्थम् । अथैनं पञ्चविंशत्या क्षुद्रकाणां समर्पयत् (भा० भीष्म ० ७८|२१)। अत्र समाचिनोदिति पाठान्तरम् । नैतावता समाचयनमाच्छादनमर्थः शक्यः कल्पयितुम् । अन्यत्र सर्वत्र व्यधनार्थस्यासन्देहं प्रतीतेः । पितामहस्त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ( भां० भीष्म० :१०३|८)। आच्छादनमर्थस्तु नोपपद्यते । न हि त्रिभिर्बाणैराच्छादनं शक्यक्रियं भवति । अनन्तरपरस्मिन्पद्ये शिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैरित्यत्र विव्याधेति क्रियायाः श्रवणादत्रापि व्यधनार्थ एवोचितोऽसंशयम्।

 शाम्यतिः शमे प्रसिद्धः सन्धावपि वर्तते. तद्यथा--महद् वो भयमागामिन, चेच्छाम्यथ पाण्डवैः (भा० उ० ५८|२७ ) । न शोम्यथ= न सन्धत्थ ।