पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१८९

पुटमेतत् सुपुष्टितम्
१८५
प्रथमोऽनुबन्धः


 अवि रबि लबि शब्दे । लबि अवस्त्रसने चेति धातुपाठः । लम्बेः प्रयोगना- नादमुदाहरामःअवधानं च तत्र दीयमानमिच्छामः । यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा । स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते (भा० आदि० ७९|२)। रश्मिषु लम्बते प्रग्रहान्धारयति। जयद्रथश्च हन्तव्यो लम्बते च दिवाकरः (भा० द्रोण० १४१|३२)। लम्बते पश्चिमाशामालम्बते । शूरबाहुषु लोकोयं लम्बते पुत्रावत्सदा (भा० शा० ९८|१७ )। लम्बते श्रयते, तत्राधूतो भवति ।

 प्राप्त्यर्थो लभिः। तत्रोदाहरणं नापेक्ष्यम् । शकेरर्थेपि प्रयोगमवतरति-- कथं हि धर्मराजस्य दोषमल्पमपि ब्रुवन्। लभते परिषन्मध्ये याहर्तुमकुतोभयः ( भा० उ० ३।५ ) । लभते शक्नोति उत्सहते ।

 श्रद्दधातेः प्रयोगे कारकनानत्वं द्रष्टव्यं भवति, । श्रदस्मै धत्त स जनास इन्द्रः (ऋ० २|१२|५) । अश्रद् दघत् परलोकाय मूढः(भा० उ० २७|९ ) । य एव ब्रूयादहमदर्शमितिं तस्मा एव श्रद्दध्याम ( शं० ब्र० १।३।१।२७ ) । कः श्रद्धास्यति भूतार्थम् ( मृच्छक० ३।२४ ) । श्रद्दधे त्रिदशगोपमात्रके दाहशक्तिमिव कृष्णवर्त्मनि ( रधु० ११|४२)। कारकत्वाविवक्षायां षष्ठीमपि शैषिकीं प्रयुक्तां पश्यामः । स यद्यदर्शमित्याहाथास्य श्रद्दधति (ऐ० ब्रा० १|६) । अश्रद्दधाना धर्मस्य ते नश्यन्ति न संशयः (भा० वन° २०७|४७) । श्रद्धेस्व मम ब्रह्मन् नान्यथा कर्तुमर्हसि (भा० व० २१५|१० ) ।

 हयान्रथे युनक्ति हयैर्वा रथमित्युभयो व्यवहारः प्रतितिष्ठति । तथा च भारतगते उदाहरणे-योजयामास संहृष्टः पुनरेव रथोत्तमे (हयान् ) (द्रोण० १००॥१६ )। तान्रथान्साधुसम्पन्नान्संयुक्तान् जवनैर्हयैः (वन० २४४|४)। धूः शब्दप्रयोगे तु धुरि नियता सप्तमी--गुणानामेव दौरात्भ्याद् धुरि धुर्यो नियुज्यते । अजातकिणस्कन्धः सुखं स्वपिति गौर्गडिः । पुरुहूत द्विषो धूर्षु युक्तान् यानस्य वाजिनः (भट्ठि० ९|६७ ) {

 गुरुः प्रहर्षः प्रबभूव नात्मनि ( रघु० ३|१७ । शरीरे गुरुः प्रहर्षो न ममावित्यर्थः । भागवतकारस्तु विधान्तरेणेममर्थमाचष्टे । यदाह-- मुदा शरीरे प्रबभूव नात्मनः पाथोधिरिन्दूदयमूर्छितो यथा (१।११।६ )| अयं च वाक्य- विन्यासो वर्तमानहिंन्द्यभिधानविधयाऽनवयवेन संवदतीत्यस्यार्वाचीनत्वे लिङ्गम् । माधातुप्रयोगेपि कालिदासश्रिता सरणिरेव कविभिराश्रीयते--तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः ( शिं० १|२३ ) । इत्यत्र यथा ।

 पुत्रादेः कृतकत्वेन परिग्रहे क्लृपेर्व्यवहारो व्यवस्थितः, स च समीक्षितव्यः-- तमुत्सृष्टं जले गर्भ राधाभर्ता महायशाःपुत्रत्वे कल्पयामास (भा० आदि० १११|२३ ) । धन्या सा प्रमदा या त्वां पुत्रत्वे कल्पयिष्यति ( भा० वन ०