३०८|१७ ) । अत्र पुत्रत्वे इत्यत्र सप्तम्यां सविशेषमवधेयम् । नेह विभक्त्यन्तरं प्रयुञ्जते प्रयोगचणाः ।
चिन्तने स्मरणेऽभिधेये चिन्तयति स्मरति या व्यतिरिच्य गमिमपि व्यवहरन्ति वाग्योगविदः--हरिं मनसा जगाम ( भा० )। सा भीमं वै मनसाऽगमत् ( भा० वि० १७|४) । कर्ण राज्ञोऽगमन्मनः ( भा० कर्ण० ३१|१५ )। एकत्र मनः करणमपरत्र च कर्तृ । उभयी विवक्षा शिष्टानाम् । सा मनसि करणीया ।
विशेर्व्यवहारेषि कारकभेदो विलोक्यते सुस्थितः । पुरन्दरस्तु तं यज्ञं दृष्ट्वोरुभयमाविशत् (भा० आदि० ५६|१४ )। अत्र पुरन्दरो विशेः कर्ता । वृत्रे विवर्धमाने च कश्मलं महदाविशत् (पुरन्दरः ) (भा० वन० १०१|८ ) { अत्रापि तथैव । पुरन्दरमुरुभयमाविशदित्येवमपि शक्यं वक्तुम् । शोकस्थान- सहस्राणि... मूढमाविशन्ति न पण्डितम् ( हितोप० १|३) अत्र मृढो विशेः कर्म । तथाजातीयकः प्रयोगः -श्रीरामायणेपि–विविशुश्च भयं सुराः (१।२१/४) । सुरान्भयमाविशद् इत्येवमपि शक्यं वक्तुम् । तथा च भारते ततो मां रोष आविशत् (भा० वन० २०|११ )। दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत् ( भा० वन० १०|३१) ।
नतेन मूर्धने जानुभ्यां वा भूस्पर्श इत्थम्भूतोपि प्रचरति व्यवहारो व्यवहारं विदुषाम्--जगाम शिरसाऽवनिम् ( भा० सभा० ३१|३२) । जानुभ्यां पृथिवीं गत्व (भ० अनु० १४/४२)।
पालनेऽर्थे पठितस्य रक्षेरर्थवैचित्र्यकृतं किमपि चारुत्वं दृश्यते । विग्रहं दूरतो रक्षन् ( भा० सभा° ४६।२९) । दूरतों रक्षन् दूरे परिहरन्नित्यर्थः, वारयन्निति वा । किं जितं किं जितमिति ह्याकारं नाभ्यरक्षत (भा० सभा० ६५|४३ )। आकारं हृषीकृतं स्वाभिप्रायं तिरोधातुं संवरीतुं नाक्षमतेत्यर्थः।
कृती छेदन इति तुदादिषु पठ्यते । अयमुद्धरणेपि वर्तते तथा च भारतस्थः-- प्रयोगः--न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः (सभा० ६८|७७ ) । शल्यं कण्टकं नोद्धरन्तीत्याह ।
वाक्यप्रबन्धे पठितस्य कथेरनुपसृष्टस्य संभाषणेऽर्थे प्रयोगो भारतस्थः-- केन साधं कथयसि (वन० १२|१०२ ) । केन संकथयसि, केन सुभाषसे, केन संलपसीत्यर्थः।
उपजपेः प्रयोगे द्वितीयाप्रयुक्तिंरुद्वेगकर्यपीदानीन्तनानां सह्या व्यवहार- विधेयानाम् पठति च शब्दवित्तमो व्यासः -क्षप्त्तारं कुरुराजस्तु शनै: कर्णमु- पाजपंत् ( भा० वि० ६७|५४) । कर्ण उक्तवान् । उपांशु व्याहरदित्यर्थः ।