वेदस्नातः व्रतस्नातः, वेदव्रतस्नात इत्यादयो वेदादिसमाप्तिनिमित्तेन स्नातः कृतस्नानो गुरुकुलात्समावृत्त इत्यर्थमाहुः । तच्च सर्वस्य निर्विशेषं विदितम् । तत्रार्थे वेदसमाप्तौ स्नातस्य समवृत्तिमन्यथाप्युपवर्णयन्ति सन्तः-- सर्ववेदेषु वा स्नानं सर्वभूतेषु चार्जवम् । उभे एते समे स्यातामार्जवं वा विशिष्यते( भा० अनु० १४२।२९) ।
आशीः-प्रदाने वर्धस्येत्यनुक्त्वा प्रकारान्तरमपि मनोज्ञं जुषन्ते साहितीजुषः-- त्वं मया सह गत्वाद्य राजानं कुरु वर्धनम् ( भा० आश्व० १५|३२ )। राजानं वर्धनं ( वर्धनशीलं ) कुरु, राजानं वर्धयेत्यर्थः।।
भक्तशब्दप्रयोगे किमपि विभक्तिवैचित्र्यं विलोक्यते । अद्यत्वे प्रायेण षष्ठीं प्रयुञ्जते तदात्वेपि-भक्तोसि मे सखा चेति ( गीत० ४|३ )। भारतेऽत्र विषये द्वितीयासप्तम्यावपि श्रूयेते इत्युदाहरामः --सर्वभावेन भक्तः स देवदेवं जनार्दनम् ( शां० ३३५|१७) । स भक्तो मागधं, राजा भीष्मकः परवीरहा ( सभा० १४।२२) । भक्तो नारायणं हरिम् (शां० ३३५।२१ )| भक्तोऽस्मान् ( भीमः) भक्तिमांश्चाहं तमप्यरिनिषूदनम् ( भीष्म० ७७|३०)। अयं श्वा भूतभव्येश भक्तो मां नित्यमेव हि ( महाप्रस्थान० ३|७ ) । श्रीरामायणेपि द्वितीयाप्रयुक्तिः स्थिता–ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम् (६|११७|३२)। सप्तमि खल्वपि--युधिष्ठिरे भक्त इति श्रुतं मे ( भा० उ० २२।१९ ) ।
अकारमात्रभक्तोऽयं मुगागम इति आने मुक् ( ७|२|८२) सूत्रे वृत्तिः । तत्राकारस्यावयवभूत इत्यर्थः ।
सर्वशब्दः सम्पूर्णपर्यायः प्रसिध्यति । सर्वमायुरेति पूर्णमायुः समश्नुत इत्यर्थः । सर्वत्वं पूर्णता कार्त्स्न्यं भवति । तस्य प्रयोगः शतपथे--अथ कृष्णाजि नमादत्ते यज्ञस्यैव सर्वेत्वाय (१|१|४|१)।
सार्धमित्यव्ययं सहार्थे वर्तत इति न वेदनीयाः शिष्याः प्राथमकल्पिका अपि । प्रयोगस्त्वस्य न सर्वो विदितः । तानालुप्य ( बालान् ) सार्धं संन्यासुः ( श० ब्रा० ३|४|१|१७ ) । सार्धे सहचरितान् संगतान् कृत्वा संन्यासुर्निदधुरित्यर्थः ।
पुरशब्दोऽन्यमुत्तमं प्रकृष्टं प्रधानं वाह । अवस्थाविशेषणं सन्मरणमपी- त्युदाह्रियते व्यवहारस्य सर्वत्वाय--सर्वाणि सत्त्वानि खलूष्णकाले विनाम्बुना यान्ति परामवस्थाम् (का० नी० स० १६|९ )। परामवस्थां यान्ति मरणमापद्यन्त इत्यर्थः।