प्रभृतिरादिरादिभूत इत्याह । आरम्भोपि प्रभृतिर्भवति । ता वै नानाप्रभृतयः समानोदर्काः (श० ब्रा० ८|७|१|३ )। नानाप्रभृतयः = आरम्भे नाना
एकायनगत एकायन एकसर्ग एकाग्र इत्यनर्थान्तरम् । एकायनगत इत्यन्यत्राप्यर्थे दृश्यते--तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि ( भा० आदि० १७६|५ ) । एकस्यैवायनं गमनं यत्र तत्र गतः। संकुचितमार्गे गत इत्यर्थः ।
युक्तायुक्तशब्दयोः क्रियाविशेषणयोः प्रयोगः शतपथे, तत्रावधीयताम् वयांसि युक्तं चायुक्तं च संचरन्ति (१२|४|१|३ ) । युग्मचारीण्ययुग्मचारीणि च भवन्तीत्याह ।
पुत्रशब्दः कन्यावचनोपि भवति । पुमांसं पुत्रं जनय तं पुमाननुजायताम् (अंथर्व० ३|२३|३ )। पुमान्पुत्रो जायते (वा० सं० ८|५.)। दुहितापि पुत्रशब्देनोच्यते इत्यतः पुमान् इति विशेष्यत इत्युवटः ।
नित्यशब्दो ध्रुववचनोऽभीक्ष्णंवचनोऽपि प्रसिद्धः । प्रधानवचनोपि स भवतीत्युच्यते । अर्थनित्यः परीक्षेत (नि० २|१|३ )। अर्थप्रधान इत्यर्थः । धर्मनित्ये युधिष्ठिरे (भा० सभा० ३३|५ )। धर्मप्रधान इत्यर्थः । विशेषणस्य परनिपातो व्यवहारतो न शास्त्रतः। मुद्नित्यमेवास्य भोजनमित्युक्ते मुद्रप्रधानमिति ग़म्यत इति दुर्गः।
उदर्कः फलमुत्तरमित्यमरः । अयमेवैकोऽस्यार्थ इति मा ग्रहीः । अन्येपि सन्ति केचनार्थाः शिष्टप्रमाणिताः। उदर्क उत्तरकालः। उदर्कस्तव कल्याणि कल्याणो भविता शुभे (भा वन० ६४|९२)। उदर्को भाग्योदयः । उदर्क स्तव कल्याणि तुष्टो देवगणेश्वर:(भा० आदि०.१२३|३१ )। उदर्कोऽन्तोपि भवति । ता वै नानाप्रभृतयः समानोदर्का: ( श० ब्रा० ८|७|१|३)।
भार्यास्पर्शमप्यवर्जयदित्यर्थविवक्षया भार्या स्पर्शेप्यवर्जयदित्येवमपि व्यवहरन्ति वाग्योगविदः। अयं व्यवहारः कथासरित्सागरे (१४|४७|२७) इत्यत्र स्थितः। परवच्छब्दः पराधीनमाह । एतद्योगे विभक्तिद्वैविध्यं दृश्यं भवति प्रतिनियतविषयम् । परवन्तो वयं राजंस्त्वयि । अत्र सप्तम्याः प्रयोगः । भ्रात्रा यदित्थं परवानसि त्वम् ( रघु० १४|५९)। अत्र तृतीयायाः । यत्र पुरुषे पारवश्यं तत्रोभयीविवक्षा । अन्यत्रं तु तृतीयाप्रयुक्तिर्नियता । परवानिव शरीरोपतापेन ( मालती० ३ )। विस्मयेन परवानस्मेि ( उत्तर० ५ )। साध्वसेन परवान् ( मालती० ६) ।
दसु उपक्षय इति धात्वर्थनिर्देशेप्युपोपसर्ग उपसर्गपूर्वस्यैवास्यः प्रयोग इति नियमद्योतकः । न वो दस्रा उपदस्यन्ति धेनवः (ऋ० ५|५६|५ )।