पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१९६

पुटमेतत् सुपुष्टितम्
१९२
वाग्व्यवहारादर्शः

उतो रयिः पृणतो नोपदस्यति (ऋ० १०|११७|१)। प्रजय स विक्रीणीते पशुभिश्चोपदस्यति ( अथर्व० १२|४|२ )।

 सृष्टधृतौ निश्चितौ कृतनिश्चयावपि भवतः । तथा च श्रीरामायणे प्रयोगौ--- यत्सृष्टासि मया सार्धं वनवासाय मैथिलि ( २|३०|२९)सर्गशब्दो नानार्थः । पठति चामर:--सर्गः स्वभावनिर्मोक्षनिश्चयाध्यांयसृष्टिषु । सर्गो निश्चयः । सृष्टो निश्चितवान् । रावणस्य वधे धृतः (६|१००|३९ ) । गन्तुं निश्चिनोतीत्यर्थे गमनाय मनो धरति दधातीति वेति वाक्यविन्यासोपिः व्यवहारानुगो भवति । तयां च भारते प्रयोगः–गमनाय मनो दधे (दध्रे) ( शां० २३१/६४ ) ।

 पूञ् पवन इत्यस्य विभाजने पृथक्कारणेऽर्थे पाप्मभ्यश्च पुनातु वर्धयतु च श्रेयांसि सेयं कथा (उत्तर० ७|२०) इत्यत्र प्रयोगः पृथते नाम । तदर्थकस्य शुम्भेरपि प्रयोग आथर्वणे स्थितः-- यद्रिप्रं शमलं चकृम यच्च दुष्कृतम् । आपो मा तस्माच्छुम्भन्तु( अथर्व० १२|२|४० )। पञ्चमी चात्रोभयत्र समाना।

 दानार्थस्य शिक्षेः कर्मणि तृतीयाश्रुतिः सम्प्रदाने च द्वितीयेति काचित्कश्छान्दसो व्यवहारः । सपत्नहनमृषभं घृतेन कामं शिक्षामि हविषाऽऽज्येन (अथर्व ९|२|३ ) । कामाय हविराज्यं ददामीत्यर्थः।

 राज्ये भिषिक्तः, राज्येऽभिषिच्यते इति रूढिः । क्वचित् तृतीयाचतुर्थ्यावपि प्रयुज्येते । अतो मूलं सुराणां श्रीर्यत्र शक्रोभिषिच्यते । सुरराज्येन (भा० उ० १०७|८)। अत्र राज्येन विप्राणां चन्द्रमाश्चाभ्यषिच्यते (भा० उ० १११|८)। चतुर्थी खल्वपि–येनेन्द्रं देवा अभ्यसिञ्चन्त राज्याय (आपू० श्रौ० ६|४|१४|७) ।

 परेणेति एनवन्तमशिष्टमपि शास्त्रेण बहुलं व्यवह्रियते—परेणास्मान्प्रेहि वै हव्यवाह (भा० आदि० २३२|११)। अस्मत्तः परत इत्यर्थः। किं वा मृत्योः परेण विधास्यति ( मालती० २।२ )। स्तन्यत्यागात्परेण (उत्तर० २।७ )।

 विरुद्धं प्रतिकूलमित्यनर्थान्तरम् । कर्मणि क्तः । कर्तरि तृतीयाप्रयुक्तिः शास्त्र- व्यवहारोभयानुकूलो-न प्रवेक्ष्यामि वो देशं विरुद्धं यदि मानुषैः । (भा० सभा० २८।१५)

 विहस्तव्याकुलौ समावित्यमरः। रामापरित्राणविहस्तयोध–(रघु ०. ५|४९)। नानायुधविहस्त(हरि० १३२३८) इत्यत्र तु विहस्तो विचक्षण इत्यनर्थान्तरम् ।

 सकाशशब्दः समीपवचनः सर्वस्य विदितः, राज्ञः सकाशं गच्छति, राज्ञः सकाशादागच्छतीति । ततोऽन्यत्रापि वर्तते । तथा च याज्ञवल्क्यस्मृतौ प्रयोगः- अग्नेः सकाशाद् विप्राग्नौ हुतं श्रेष्टमिहोच्यते (१|३१६ )। अग्नेः सकाशात् अग्निमपेक्ष्य, अग्न्यपेक्षया ।