पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१९९

पुटमेतत् सुपुष्टितम्
१९५
प्रथमोऽनुबन्धः

कतकः। स ददर्श महात्मानं किरीटिनं । कुम्भकर्ण मंहाबलम् (रा० ६|६७|१३६)। महात्मानं महाकायम् ।

 नेदिष्ठ इति समीपतममाहेति नाविदितम् ॥ इनिप्रत्ययान्तस्तु नेदित्रिंशब्दो न सर्वस्य विदितः, स वेद्यते । .यदि दोक्षितानां कश्चिप्रमीयेत तस्य यो नेदिष्ठी स्यत्तमुपदीक्ष्य ( ता० ब्राह० ९।८।९)। नेदिष्ठी निकटौ बन्धुः ।

 अवारितमित्यनिरुद्धं भवति मुख्यया वृत्या । अनारतमविरतमिति तु गौण्या । तथा च प्रयोगाः प्रथन्ते--अवारितम् । अश्रु प्रववृते ( कथा० १३|१२६ )। निदाघकाले पानीयं यस्य तिष्ठत्यवारितं (भा० अनु०.६५|६ ) दीयतां भुज्यतां चेष्टं दिवारात्रमवारितम् ( भा० अनु० २६८६ )। निरन्तरमनन्तरायमेित्यर्थः ।

 असङ्गशब्दाऽसङ्गो वै पुरुष इत्यादिषु प्रसिद्धः प्रसिद्धार्थश्च । निष्प्रत्यूहं निरवग्रहमित्यर्थे क्रियाविशेषणं चापि व्यवह्रियते । तद्यथा—विलयमीयुरसङ्गमुपद्रवाः (अवदा० जा० १०|२७ ) ।

 भूतपूर्व इति पूर्वे भूतः पूर्वे यादृशोऽभूदिदानीं ततोऽन्यादृश उच्यते प्रायेण । आढ्यो भूतपूर्वः। इदानीमनाढ्य इत्यर्थः । नष्ट इत्यनेन समानार्थकोपि दृष्टः । बान्धवाः भूतपूर्वाश्च तत्र वासे तु का रतिः ( भा० आदि० १५७|२८)। भूतपूर्वा नष्टा इत्यर्थः ।

 सतत्त्वं हि तत्त्वेन समानार्थम् । सहशब्दोऽनर्थक उपजनः सन्नपि व्यवहारेणाभ्यनुज्ञायते । विदितात्मसतत्त्वस्य नेह नानास्ति किंचनेति स्मृतिः ।

 अर्थितेत्यर्थिनो भावो भवति । क्वचित्वतलावपि कर्मणि दृश्येते । इहार्थितेति प्रयोजनमाह--पप्रच्छागमनेऽर्थिताम् (भा० आदि०.११२|४)।

 अन्तरेणेत्यव्ययं विनार्थे मध्यार्थे च प्रसिद्धम् । मामन्तरेण किन्नु चिन्तयति गुरुः, मद्विषय इत्यर्थः । अश्वस्य मेध्यस्य शिरो निकृत्तं न्यस्तं हविर्धानमिवान्तरेण (भा० द्रोण० १४३।७१)। अत्रान्तरेणेति साक्षान्मध्यवाचि । हविर्गृहस्य मध्येऽभ्यन्तर इत्यर्थः ।

 बहुशब्द एकवचनेपि दाशतये-नृम्णानि कृण्वन् बहवे जनाय (ऋ० १०|१०२|८) । बहुभ्यो जनेभ्य इत्यर्थः ।

 अनन्तरायमित्यविध्नं भवति । निरवशेषमप्याह-ये चैवावमा ये च परमा -ये च मध्यमास्तान् सर्वाननन्तरायं प्रीणाति ( ऐ० अ० १३१३ )। कमप्येकमनवशेप्याऽपरित्यज्येत्यर्थः ।

 बन्धनं बन्धो भवति बन्धनस्थांनमपि काराख्यंम् । बन्धनानि च सर्वाणि राजमार्गे निवेशयेत् ( मनु० १|२८८ )। बन्धेनानिं काराः।