कृतकृत्यः कृतार्थो भवति यं सिद्धार्थ इत्याहुः । फलवत्प्रवृत्तिः कृतकृत्य इति व्यक्ततरमुच्यते । कृतकृत्याः पुनर्वर्णा यदि वृत्तं न विद्यते (भा० वन० १८०|३६ )। येषां कर्तव्यं नास्ति नावशिष्यते, शूद्रसधर्माणस्ते भवन्तीत्यर्थ इति नीलकण्ठः ।
तदस्य द्वितीयं जन्मेत्यर्थे स यद् यजते तद् द्वितीयं जायते ( शं० ब्रा० ११।२।१।१) इत्येवमपि व्यवहरन्ति । तस्यां नोऽप्यसत् (श० सं० १२|३|५|१)। तस्यामस्माकमपि भागोस्त्वित्यर्थे वचनम् । भागादिशब्दपरीहारो व्यवहारमनुरुन्ध इत्याद्दत्यो नः ।
गमनीयशब्दव्यवहारोपि शिष्टशीलितोऽवगन्तव्यः । कुण्डलाभ्यां वियुक्तोहं वर्मणा सहजेन च । गमनीयो भविष्यामि शत्रूणां द्विजसत्तम ( भा० वन० ३२०|१२ )। अरीणामासाद्यो भविष्यामि, तद्रोचरे पतिष्यामीत्यर्थः । तपोवनविरोधिनो विकारस्य गमनीयास्मि संवृत्तां ( शा ० १ )। विंकारेणाक्रान्तास्मीत्याह ।
किंशन्दः कुत्सायां प्रथते । स किंसखा साधु न शास्ति योऽधिपम् ( कि० १|५) । अत्र समासगतः किंशब्दः कुत्सितवचनः, अन्यत्र साक्षात् कुत्सामप्याह । तत्र किं प्रतिभाति मे (भा० वन० २०८|२५) । तत्र जीववधेन प्राप्ये मांसे.मे कुत्सा निन्दा प्रतिभाति, ततो.जीवान्न हन्मीत्याह ।
क्षणिकशब्दः सर्वस्य विदितः क्षणस्थायिवचनः । क्षणिशब्दोप्यस्ति ततो भिन्नार्थः । तं विश्रान्तं शुभे देशे क्षणिनं कल्पमच्युतम् (भा० सभा० १३|४५)। क्षणिनं सावसरं निर्व्यापारं स्थितम् ।
मनुषीशब्दस्य स्त्रीलिङ्गस्य प्रयोगः शतपये--तस्मादिमा मनुष्यः स्त्रिय- स्तिर इवैव पुंसो जिघत्सन्ति इति ह स्माह याज्ञवल्क्यः (श० ब्रा० १|९|२|१२)। मनुष्यजातावुत्पन्ना मनुष्यः ।
द्वारे नियक्तो दौवारिक उच्यते । द्वारमस्यास्ति रक्ष्यमित्यर्थे इन्यन्तो द्वारिशब्दोऽप्यंस्ति यस्तात्पर्यतो दौवारिकमाह--द्वारिणं तपसा ऊचू राजानं च प्रकाशय ( भा० आदि० १२६१० )। इत्यत्र भारते यथा ।
अन्तरमिति नानार्थम् । एतदधिकृत्य किञ्चिदुक्तमधस्तात् । अन्यत् किञ्चि- दुच्यते । अन्तरमंन्तरात्मन्यपि वर्तते तद्यथा-- इत्यादि मन्त्रिणां वाक्यं न लेभे तस्य चान्तरम् ( कथा० ४०|५५ )। अन्तरात्मानं न प्राप, हृदयङ्गतं नाभूत् , चेतसि पदं न करोदित्यर्थः। छिद्रेपि वर्तते--हनुमतो वेत्ति न राक्षसोऽन्तरम् । न मारुतिस्तस्य च रक्षसोऽन्तरम्(रा० )।