पृष्ठम्:वाग्व्यवहारादर्शः.djvu/२०४

पुटमेतत् सुपुष्टितम्
२००
वाग्व्यवहारादर्शः

 क्लिष्टं हि मुख्यया वृत्याऽऽर्त उच्यते यश्च ग्लानो मलिनश्च लक्ष्यते । तत्साधर्म्यादक्लिष्टोऽप्यनार्तोपि मलिनों मलदूषित: क्लिष्ट इत्युच्यत उपचारात् । न भाति वाससि क्लिष्टे रङ्गयोग इवाहितः (सुश्रुते २|१५७|८)।

 करोतिना सर्वधात्वर्थानुवादः क्रियत इत्यधिकृत्य शास्त्रौघात्संकलितैरुदाहरणैः करोतेरर्थनानात्वं सम्यक स्फोरितम् । तथापि कालान्तरे समुपलब्धाभ्युदाहरणान्तराणि कतिपयानीह संनिधाप्यन्ते--   तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः (रा० १|१९|१९)। मा कृथाः = मा आधिथा। मा स्म शोके मनः कृथाः ( रा० ३|६१|१९ ) । उक्तोऽर्थः । अवरं स्वाहाकारं करोति परां देवताम् (श० ब्रा० १४|१|३|२६) । पूर्वे स्वाहेति पठति ततो देवतानामधेयमुच्चारयतीत्यर्थः । इह. करोतिरुच्चारणे वर्तते । यन्तुर्वाक्यकरैर्हयैः (भा० द्रोण० ३७|२२)। इह करोतिरनुवर्तने वर्तते । उपाध्यायमधः कृवा (भा० अनु० ९३|२३ )। इह करोतिरासने उपवेशने वर्तते । अकरोत्स ततः कालं शरतल्पगतो मुनिः ( भा० आश्व० ६०|१२ ) । अकरोत् अक्षपयेत् , अनयत् । ततोऽस्याः स्वागतं कृत्वा व्यादिश्य च वरासनम् (भा० शां० ३२०|१४ )। अत्र करोतिर्व्याहरणे वर्तते ।

इति प्रथमोऽनुबन्धः ।