पृष्ठम्:वाग्व्यवहारादर्शः.djvu/२०६

पुटमेतत् सुपुष्टितम्
२०२
वाग्व्यवहारादशेः

कर्ण० ८९|९३ ) । अत्र तुषारनीहारयोः समभिव्याहारात् पर्यायत्वं विघटते । तुषारः सूक्ष्माः पयोदपृषताः। नीहारो हिभावरणम् ।

 नगौकोवाजिविकिरविष्किरपतत्त्रय इति पक्षिपर्यायेष्वमरः । तेन तस्य विकिरविष्किरौ पर्यायावभिमतौ । संकुसुको विकुसुको विकिरो यश्च विष्किरःभाषाज्येन नलेध्मेन क्रव्यादं शमयामसि ( ) इत्यत्र युगपत्पाठान्नैतौ पर्यायावित्यवसायः ।

 सरस्तटाकौ पर्ययाविति लोकः प्रतिपन्नः, परमिमावपि नात्यन्ताय निर्विशेषौ । कौटलीयेऽर्थशास्त्र एतयोः संम्पाठदर्शनात्--हृदस्य वाऽविशेषस्याङ्गे सरसस्तटाकस्य व पण्यपुटभेदनमंसवारिपथाभ्युपेतं कारयेत् ( २|२|२१ )। तत्र हृदस्तु सदाजलोऽगांधजलो वेति प्रसिद्धः । तटाक इह पद्माकरवचनः । सरः- शब्दो जलाशयसामान्यमाह । तटाकविषये शब्ब्दार्थाचिन्तामणाविदं स्थितम्— प्रशस्तभूमिभागस्थो बहुसंवत्सरोषितः । जलाशयस्तडागः स्यादित्याहुः शास्त्रकोविदाः ॥

 यवागूरुष्णिका श्राणा विलेपी तरला ‘च सेत्यमरः पठति । अस्ति चैषां विशेषः । आह च-सिक्थैर्विरहितो मण्ड़: पेया सिक्थसमन्विता । विलेपी बहुसिक्था स्याद् यवागूर्विरलद्रवा ।||इति

 उल्वजरायू पर्यायाविति विभ्रमन्ति केचित् । यथा उल्वमित्यनवगमः जरायु इत्यवगमः ( नि०.६|३५)। इति दुर्गः । तन्न । उत्तरं वा उल्वाज्जरायु इत्यै- तरेये ( ऐ० ब्रा० १|३ ) भेदस्य स्फुटमुक्तत्वात् । भेदे प्रयोगश्च—-मेरुरुल्वमभृतस्य जरायुश्च महीधराः ( अमरटीकायां सर्वानन्दः ) । षड्गुरुशिष्योपि स्फुटतरं भेदमेतयोराह–उल्वेन वेष्टितो गर्भस्तञ्जराय्वभिवेष्टितम् इति । शतपथे (३|२|१|११) अन्तरं वा उल्वं जरायुणो भवतीत्यत्र व्यक्ततरो भेदः ।

 दर्वीः कम्बिः खजाका चेत्यमरे पाठःखजां च दर्विं च करेण धारयन् ( भा० वि० ८|१ ) इति खजादव्यः सम्पाठदर्शनान्नैते अत्यन्तमेकार्थिके । इत्थं च ते भिनत्ति नीलकण्ठः --खजा मन्थनदण्डः, हस्ताकारः पिष्टविकारप्रम थनार्थो वा दण्डः। दवीं शाकादिपरिवेषणार्था । व्यञ्जनाद्यवघट्टमकाष्ठम् । सूपादिपरिवेषणार्था लौहमयी खजा । कटाहादन्ननिः सारणार्था दवीति भेद इत्यर्जुनमिश्रः ।

 दीप्तिकान्त्यादिविषये किञ्चिदुक्तमधस्तात् । तत्र दर्पणकारस्य.कान्तिरेवाति- विस्तीर्णा दीप्तिरित्यभिधीयते ( सां० द० ३|१३१) इति वचोपि भेदनिर्ज्ञानाय ग्राह्यम् ।