रोषक्रोधौ विविञ्चद्भिरस्माभिः किञ्चिदुक्तं तत्रोज्ज्वलाकारस्य हरदत्तमिश्रस्य वच उपकारकमादेयम्-रोषः क्रोधस्यैव कियानपि भेद्रो मित्रादिषु प्रतिकूलेषु मनसो वैलोम्यमात्रकार्यकरः ( आप० ध० १|२३|५ )।
अश्रुबाष्पयोभेदमधिकृत्य यदुक्तमधस्तात्तत्रेदं भूयो वेद्यम् । श्रीरामायणेऽ- न्यत्रैतयोरभेदेनापि प्रयोगः श्रितः -कौसल्या ध्यसृजबाष्पं प्रणालीव नवोदकम् ( २|६२|१० ) ।
असुप्राणयोर्भेदमभ्युपयन्त्यृषयः । तथा. चाथर्वसंहितायां शौनकीयाः पठन्ति--प्राण प्राणं त्रायस्वासो असवे मृड ( अथर्वं० १९|४४|४)।
तन्द्रालस्ये पर्यायाविति प्रतिपन्नप्रायम् । याज्ञवल्क्ये ( ३|१५८) तन्द्रालस्यवर्जनमिति स्मर्यते । अवश्यं भेदोभिप्रेतः स्मृतिकारस्य । शब्दस्पर्शादिविषयेषु श्रोत्रादीन्द्रियाणां प्रवृत्तिनिरोधस्तन्द्रा निद्रानुकारिणी । आलस्यमनुत्साह इति मिताक्षरायां स भेदः उक्तः ।
मार्गाध्वपन्थानोऽमरे पर्यायाः परिपठिताः। परं दाशतये साहचर्येण पाठात्पथ्यध्वनोर्भेदो वसीयते । वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा अग्ने यज्ञेषु सुक्रतो (ऋ० ६।१६३ ) । तत्राध्वनो महामार्गान्, पथः क्षुद्रमार्गानित्येवं भेदं व्यनक्ति सायणः ।
वर्तनिपन्थानावपि भिद्येते । भेजे पंथो वर्तनिं पत्यम।नः (ऋ० ७|१८|१६ )। वर्तनिः पलायनमार्ग इति सायणः ।
स्युर्मौहूत्तिकमौहूर्तज्ञानिकार्त्तान्तिका इत्यमरे दैवज्ञपर्यायाः पठिताः । तेषां कार्तान्तिकनैमित्तिकमौहूर्तिकव्यञ्जनाः (कौ० अ० १|१३|९ )। कार्तान्तिक़दीनां मिंथो भेदमित्थमुद्भावयति गणपतिः शास्त्री-कृतान्तो दैवं पूर्वकर्म तद्वेदिनः कार्तान्तिकाः । शुभाशुभशकुनज्ञा नैमित्तिकाः । त्रिकालावृत्तज्ञा मौहूर्तिकाः ।
कोपक्रोधौ विवेचितौ । तत्र ततः कोपसमाविष्टो विश्वामित्रो महामुनिः । स्त्रुवमुद्यम्य सक्रोधः( रा० १|६०|१२ ) इति रामायणीयं वचनं व्याचक्षाणस्तिलककार आह--कोपस्यैवाधिकावस्था क्रोधः। तदिदमुक्तपूर्वस्योपोद्वलकम् ।
गर्वाभिमानादिविषये किंचिदुक्तमधस्तात् । अभिमानविषये इदमधिकं ज्ञेयम्-अभिमानो नामात्मन्यविद्यमानगुणारोप इति ।
सभासमाजैौ पर्यायाविति सम्प्रतिपन्नो लोकः । तावपि सान्तरौ । सभाः समाजांंश्चागन्ता ( आप० ध० १|१|३|१२) । द्यूतादिस्थानं सभा, उत्सवादिषु समवायः समाज-इति हरदत्तष्टीकाकारः ।