पृष्ठम्:वाग्व्यवहारादर्शः.djvu/२०८

पुटमेतत् सुपुष्टितम्
२०४
वाग्व्यवहारादर्शः

 वनकानने अपि भिन्नार्थके । ततो बहून्यपश्येतां काननानि वनानि च ( हरि० २|२८|७० )। काननान्यरोपितवृक्षाणि । वनानि रोपितवृक्षाणीति नीलकण्ठः ।

 श्रेणिगणयोर्भेदः । श्रेणीनां च गणानां च मञ्चा भान्त्यचलोपमाः (हरि २|२९|५ )। श्रेणीनामनेकजातीनामप्येकशिल्पोपजीविनाम् । गणानामेकजातीनाम् इति नीलकण्ठः।

 प्रोक्षणाभ्युक्षणावोक्षणानि भिद्यन्ते । तथा च गृह्यासङ्ग्रहे भाष्ये (१|१०३ ) प्रोक्षणादय इत्थं विविच्यन्ते--उत्तानेनैव हस्तेन प्रोक्षणं समुदाहृतम् । न्यञ्चताऽभ्युक्षणं प्रोक्तं तिरश्चाऽवोक्षणं मतम् इति।

 विवाहश्वोद्वाहश्चैकार्थाविति प्रायोवादः । विशिष्येते ह्येतौ । कन्यसंस्कारो विवाहः। वरसंस्कार उद्वाहः ( लौ० गृ० २५|१९ इत्यत्र देवपालः )।

 अस्ति पताकाध्वजयोर्भेदः । श्रीमद्भागवते चित्रध्वजपताकाग्रैरन्तः प्रतिहतातपम् ( १|११|१३ ) ।अत्रोभयोः साहचर्येण पाठः पर्यायत्वं वारयति । गरुडादिचिह्निता ध्वजाः । जयप्रदयन्त्राङ्किताः पताका इति श्रीधरः। पताका वैजयन्ती स्यादिति ब्रुवन्नमरोप्यत्रानुकूलः ।

 स्युर्मागधास्तु मगधा वन्दिनः स्तुतिपाठका इत्यमरे पाठः। चत्वार एकार्था इत्येक इति स्वामी । नटनर्तकगन्धर्वाः सूतमागधवन्दिनः (भा० पु० १|११|२०) । तत्रैतानित्यं विविनक्ति श्रीधरः--सूताः पौराणिकाः प्रोक्ता मागधा वंशशंसकः । वन्दिनस्त्वमलप्रज्ञाः प्रस्तावसदृशोक्तयः ॥ । इति ।

 उपसर्गमात्रेण भिन्नावृद्धिसमृद्धिशब्दौ कलया भिन्नार्थाविति हरिवंशे- ऋद्धिं सम्मृद्धिं विपुलांश्च भोगान् (१|४१|१७४) इतिं सम्पाठाद् व्यक्तिमेति । अयं चानयोर्भेदो नीलकण्ठोद्भावितः-- ऋद्धिर्धर्मफलभूता सम्पत्तिः। समृद्धियोंगैश्वर्यम् इति ।

 भेषजौषधे समानार्थे अभिमते भिद्येते नांम । औषधं द्रव्यसंयोगं ब्रुवते दीपनादिकम् । हतव्रततपोदानं शान्तिकर्म च भेषजम् ॥ ( का० सं०' इन्द्रिय० औषध० श्लो० ४ )

 कर्तनच्छेदने नात्यन्तायाभिंन्ने। केशरोमनखश्मश्रु न च्छिन्द्यान्नापि कर्तयेत् । ( ल० वि० स्मृ० ३|१० )। अत्रोभयोः साहचर्येणोक्तिरभेदं वारयति । कर्तनं विकर्तनमग्रभागस्यापनयनम् भवति । छेदनं तु लुञ्चनं मूलत उद्धरणम् ।

 अपवर्गमुक्ती नानार्थे । अपवर्गाश्च युक्तानां कैवल्यं चात्मवेदिनाम् (भा० अनु० १६|३६ )। इत्यत्र भेदेनोपादानात् । अपवर्गः क्रमंमुक्तिस्थानं ब्रह्मलोकाख्यम्। कैवल्यं मुख्या मुक्तिरिति नीलंकण्ठः ।