-विनिग्रहे ( भा० उ० ५७|५३ ) । समर्थादयः पर्यायाः । सहप्रयोगस्तु सामर्थ्यातिशयद्योतनायेति नीलकण्ठः । अस्ति सूक्ष्मो-मेदः, तद्विभावनेऽविभवस्तेषामित्येवाचरमः पक्षः ।
वीणावल्लकीविपञ्च्यः पर्यायाः पठिता अमरेण । भारते (अनु० ७९|२६ ) वीणानां वल्लकीनां चेति साहचर्येण, पाठदर्शनान्नियतं भिन्नार्था इमाः। भेदं तु सङ्गीतेऽभ्यन्तरा विद्युः ।
किरीटमुकुटे तुल्यार्थके अभिमते। इदमपि चिन्त्यम् । अनेकत्र साहित्य एतयोः सम्पाठदर्शनान्नैते अस्यन्तमभिन्नार्थे इत्यवधारयामः। हारैः किरीटैर्मुकुटैरुष्णीषैः किङ्किणीगणैः ( भा० द्रो० १८७|४८)। किरीटमाला मुकुटाश्च शुभ्राः (भा० कर्ण० ९४।१९ )। किरीटापीडमुकुटैरङ्गदैरपि मण्डिताः (इरि० २|८४|१४)। किरीटी वज्रघृग्धन्वी मुकुटी बद्धकुण्डलः (भा० अनु० ४०|२९)। अत्र विवरीतारस्तूष्णीकामासते, वयमपि प्रमाणविरहे नेश्महे किमपि वक्तुमिति विरमाम।
इति पर्यायवचनविवेकेऽनुबन्धः ॥
यद्वशे वर्तते नित्यं यदिङ्गं यच्च नेङ्गति ।
यद्भासा भासते विश्वं कैतपूर्यश्च कीर्त्यते ॥ १॥
यत्प्रसादात्प्रसिध्यन्ति कर्माणि दुष्कराण्यपि ।
तस्मिन्महेश्वरे प्रह्वः कृतिमेतां समर्पये ॥२॥ ( युग्मम् )
कृत्यामास्वादमास्वदमेतस्यां वर्तनिं नवाम् ।
नवार्थस्यातिसन्तृप्ताः सम्प्रेष्यन्ते, विपश्चितः ॥३॥
इति प्रत्ययितो याचे प्रश्रितस्तान् विमत्सरान् ।
सानुग्रहं प्रवृत्तास्ते विमृशन्तु क्रियामिमाम् ॥४॥
तावताऽऽकलयिष्येहं कृतितामात्मनः पराम् ।
विमर्शो लब्धवर्णानां यतस्तोषं प्रसूयते ॥५॥
इति श्रीचारुदेवशास्त्रिणः कृतिषु वाग्व्य्व्ह्रादर्शो नामाऽयङ्ग्रन्थः समाप्तिमापत् ।
शुभं भूयादध्यायकानामध्यापकानां च ॥
_____