पृष्ठम्:वाग्व्यवहारादर्शः.djvu/२१३

पुटमेतत् सुपुष्टितम्

अशुद्धशोधनं परिवृंहणं च

पृष्ठे पङ्कौ अशुद्दम् शुद्दम्
३ १२ नरेश्वरेति नरेश्वर इति
" " १९|१२ १३७|१७
९ ९ पश्चाच्छावाक पश्चादच्छावाक
१५ २१ दुवे दूये
२५ १२ युञ्चतेः मुञ्चतेः
३९ १३ मुनेः (सभा०) मुने (आदि० १७७।१५)
६० ३० गिरन् गृणन्
७७ १२ व्यामूख्या व्याख्या
७८ १९ २|९९|२ २|९९|३९

 वृषु सेचने इति धातुरुपचारेण पोषणेपि वर्तते । तथा च भारते ( शां० २३८|१८) प्रयोगः—-यथा सर्वाणि भूतानि वृष्टिर्भौमानि वर्षति ।

 ण्यन्तस्य वृतेः प्रयोगेषूक्तपूर्वेष्वयमप्यन्तः करणीयो दाशतये प्रयोगः- प्रतिब्रवाणि वर्तयते अश्रु ( ऋ० १०|९५|१३ । वर्तयते मुञ्चते

 रथः स्यन्दन इति सर्वस्य विदितोऽर्थः । सूर्यमाधत्थो दिवि चित्र्यं रथम् (ऋ०.५|६३|७ )। परि यत्कविः काव्या भरते शूरो न रथो भुवनानि विश्वा ( ऋ० ९|९४|३ )। इह रथो रथस्य प्राजितोक्तः । एवमेते रथाः सप्त राजनन्यान्निबोध मे (भा० सभा० १४|५८ )। अत्र रथो योध इत्यनर्थान्तरम् । अत एव महारथो महायोध उच्यते । मनोरथशब्दे रथशब्दो रते रमणस्य वाचकः । अयमेवार्थः आथर्वणश्रुतौ -रथजितां राथजितेयीनामप्सरसाम् ( ६।१३०।१ ) ।

 केनायं मत्तः श्रेयानित्यर्थं सोऽयं कस्मादतीव मामिति (भा० शां० ९८|१०) श्रेयान्व्यवहारः श्रेयः।

 अनन्तरशब्दविषय इदमतिरिक्तं वेद्यम्--प्राज्ञस्यानन्तरा वृत्तिरिह लोके परत्र च (भा० वनं० २०९|४३ ) । अनन्तरा संनिहिंता सुलभेत्यर्थः ।

 अनुपसृष्टोपि वचिर्निन्दायां दृश्यत इत्यत्र निदर्शनान्तरे–वृत्तिविज्ञानवान्धीरः कस्तं वा वक्तुमर्हति ( भा० शां० १३२|६ ) । वक्तव्या मारिषान्ये तु न वक्तव्यास्तु सादृशाः ( भा० कर्ण० ४९|५७ ) ।